वैशम्पायनः-
एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन
लोमशस्सुमहातेजा ऋषिस्तत्राऽऽजगाम ह
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः
तमभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः
पप्रच्छाऽऽगमने हेतुमटने च प्रयोजनम्
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान्
लोमशः-
सञ्चरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया
गतश्शक्रस्य भवनं तत्रापश्यं सुरेश्वरम्
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान्
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम्
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति
सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम्
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन
भ्रातृभिस्सहितो राजन्कृष्णया चैव तच्छृणु
यस्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत्
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम्
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम्
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः
विश्वावसोस्तु तनयाद्गीतं नृत्तं च साम च
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान्
सुखं वसति बीभत्सुरनुजस्यानुजस्तव
यदर्थं मां सुरश्रेष्ठं इदं वचनमब्रवीत्
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे
इन्द्रः-
भवान्मनुष्यलोकाय गमिष्यति न संशयः
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसाम्
तपसा तु त्वमात्मानं भ्रातृभिस्सह योजय
तपसो हि परं नास्ति तपसा विन्दते महत्
अहं च कर्णं जानामि यथावत्पुरुषर्षभ
न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम्
यच्चापि ते भयं तस्मान्मनसिस्थमरिन्दम
तच्चाप्यपहरिष्यामि सव्यसाचाविहाऽऽगते
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति
तच्च ते लोमशस्सर्वं कथयिष्यत्यसंशयम्
यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत
ब्रह्मर्षिरेव यद्ब्रूयात् तच्छ्रद्धेयं न चान्यथा
लोमशः-
धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर
भ्रातरं मेऽनुजैस्सार्धं योजयेर्धर्म्यया धिया
त्वं हि धर्मं परं वेत्थ तपांसि च तपोधन
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम्
स भवान्यत्परं वेद पावनं पुरुषान् प्रति
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम्
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः
तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत्
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च
दधीचिरिव देवेन्द्रं यथा चाप्यङ्गिरा रविम्
तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः
त्वया हि गुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात्
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत्
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वं तु धर्मरतिर्नित्यं धर्मज्ञस्सत्यसङ्गरः
विमुक्तस्सर्वपापेभ्यो भूय एव भविष्यसि
यथा भगीरथो राजा राजानश्च गयादयः
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव
युधिष्ठिरः-
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं मुने
स्मरेद्धि देवराजोऽयं किं नामाभ्यधिकं ततः
भवता सङ्गमो यस्य भ्राता चैव धनञ्जयः
वासवस्स्मरते यस्य को नामाभ्यधिकस्ततः
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे
तद्यदा मन्यसे दृष्ट्वा गमने तीर्थदर्शने
तदैव गन्तास्मि दृढमेष मे निश्चयः परः
लोमशः-
वैशम्पायनः-
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्
लघुर्भव महाराज लघुस्स्वैरं गमिष्यसि
युधिष्ठिरः-
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते
स ददाति यथाकालमुचिता यस्य या भृतिः
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति
वैशम्पायनः-
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते
विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैस्सह
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्