धौम्यः-
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च
सरस्वती पुण्यतमा ह्रादिनी वनमालिनी
समुद्रगा महावेगा यमुना यत्र पाण्डव
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम्
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर
गाथा चरति लोकेऽस्मिन् गीयमाना द्विजातिभिः
अग्नयस्सहदेवेन ये चिता यमुनामनु
शतं शतसहस्राणि सहस्रशतदक्षिणाः
तत्रैव भरतो राजा चक्रवर्ती महायशाः
विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत्
कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा
अत्यन्तमाश्रमः पुण्यश्शङ्करस्तत्र विश्रुतः
सरस्वती नदी सद्भिस्सततं पार्थ पूजिता
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा
दृषद्वती पुण्यतमा यत्र ख्याता युधिष्ठिर
तत्र वै वर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप
वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ
यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम
समेत्य बहुशो देवास्सेन्द्रास्सवरुणाः पुरा
विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमस्स च
ऋषिर्महान्महाभागो जमदग्निर्महायशाः
पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः
यत्र सर्वास्सरिच्छ्रेष्टास्साक्षात्तमृषिसत्तमम्
स्वंस्वं तोयमुपादाय परिवार्योपतस्थिरे
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ
इमं श्लोकं तदा वीर यज्ञं वीक्ष्य महात्मनः
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः
आगम्य सरितस्सर्वान् मधुना समतर्पयन्
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम्
किरातकिन्नरावासं शैलं शिखरिणां वरम्
बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः
भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः
स राजन्नाश्रमः ख्यातो भृगुतुन्दो महागिरिः
यस्स भूतं भविष्यच्च भवच्च भरतर्षभ
नारायणः प्रभुर्विष्णुश्शाश्वतः पुरुषोत्तमः
तस्यातियशसः पुण्यां विशालां बदरीमनु
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु भारत
उष्णतोयवहा गङ्गा शीततोयवहाऽपरा
सुवर्णसिकता राजन्विशालां बदरीमनु
ऋषयो यत्र देवाश्च महाभागा महौजसः
प्राप्य नित्यं नमस्यन्ते देवं नारायणं प्रभुम्
यत्र नारायणो देवः परमात्मा सनातनः
तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च
तत्पुण्यं तत् परं ब्रह्म तत्तीर्थं तत्तपोवनम्
तत्र देवर्षयस्सिद्धास्सर्वे चैव तपोधनाः
आदिदेवो महायोगी यत्रास्ते मधुसूदनः
पुण्यानामपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च
एतानि वसुभिस्साध्यैरादित्यैर्मरुदश्विभिः
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसे