धौम्यः-
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि
यानि यत्र पवित्राणि पुण्यान्यायतनानि च
प्रियङ्ग्वाम्रवणोपेता वानीरवनमालिनी
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत
निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः
वैढूर्यशिखरो नाम पुण्यो गिरिवरश्शुभः
दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः
तस्य शैलस्य शिखरे सरस्तरुवनाकुलम्
प्रफुल्लनलिनं राजन् देवगन्धर्वसेवितम्
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते
पुण्ये स्वर्गोपमे दिव्ये पुण्यर्षिगणसेविते
ह्रादिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्
विश्वामित्रनदी पारा पुण्या परपुरञ्जय
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः
पपात स पुनर्लोकाल्ँलेभे धर्मान्सनातनान्
तत्र पुण्यो ह्रदस्तात मैनाकश्चैव पर्वतः
बहुमूलफलो वीर असितो नाम पर्वतः
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर
च्यवनस्याऽऽश्रमश्चैव ख्यातस्सर्वत्र पाण्डव
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्
आश्रमश्श्राव्यते श्रेष्ठो मृगद्विजगणायुतः
जम्बूमार्गो महाराज सततं तापसैर्युतः
केतुमाला च मेध्या च गङ्गारण्यं च भूमिप
ख्यातं च सैन्धवारण्यं पुण्यं मुनिनिषेवितम्
पितामहसरः पुण्यं पुष्करं नाम भारत
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः
अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ
पुष्करेषु नरश्रेष्ठ गाथां सुकृतिनां श्रृणु
मनसाऽप्यभिकामस्य पुष्कराणि मनस्विनः
पापानि विप्रणश्यन्ति नाकपृष्ठे च पूज्यते