वैशम्पायनः-
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः
अश्वासयंस्ततो धौम्यो बृहस्पतिसमोऽब्रवीत्
धौम्यः-
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ
दिशस्तीर्थानि शैलांश्च शृणु मे वदतो नृप
पूर्वं प्राचीं दिशं राजन्देवर्षिगणसेविताम्
रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति
तस्यां देवर्षिजुष्टायां नैमिशं नाम भारत
यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक्
यत्र सा गोमती नाम पुण्या देवर्षिसेविता
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः
यस्यां गिरिवरः पुण्यो गयो राजर्षिसेवितः
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः
एष्टव्या बहवः पुत्रा यदि कश्चिद्गयां व्रजेत्
महानदी च तत्रैव तथा हयशिरोऽनघ
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः
यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो
सा च पुण्यजला तत्र फल्गुनामा महानदी
बहुमूलफला चैव कौशिकी भरतर्षभ
विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः
अयजत्तत्र बहुभिः ऋतुभिर्भूरिदक्षिणैः
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः
तत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ
विश्वामित्रस्य तां दृष्ट्वा विभूतिं त्वतिमानुषीम्
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः
ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत्
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्
गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम्
यत्रायजत भूतात्मा पूर्वमेव पितामहः
प्रयागमिति विख्यातं तस्मिन्भरतसत्तम
अगस्त्यस्य तु राजेन्द्र तत्राश्रमपदं महत्
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान्
अत्यन्तान्पर्वतान् राजन् पुण्यो गिरिवरश्शिवः
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः
अयजत्तत्र कौन्तेय पूर्वमेव पितामहः
यत्र भागीरथी गङ्गा सरस्यासीद्युधिष्ठिर
यत्र सा ब्रह्मशालेति पुण्या ख्याता विशाम्पते
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम्
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः
केदारश्च मतङ्गस्य महानाश्रम उत्तमः
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान्
यत्र देववनं पुण्यं तापसैरुपशोभितम्
बाहुला च नदी यत्र नन्दा च गिरिमूर्धनि
तीर्थानि सरितश्शैलाः पुण्यान्यायतनानि च
प्राच्यां दिशि महाराज कीर्तितानि मया तव
तिसृष्वन्यानि राजेन्द्र दिक्षु तीर्थानि मे शृणु
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च