वैशम्पायनः-
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः
युधिष्ठिरः-
मया स पुरुषव्याघ्रो जिष्णुस्सत्यपराक्रमः
अस्त्रहेतोर्महाबाहुरमितात्मा प्रवासितः
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधनः
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ
त्रियुगं पुण्डरीकाक्षौ वासुदेवधनञ्जयौ
नारदोऽपि तथा वेद योप्यशंसत्सदा मम
तथाऽहमपि जानामि नरनारायणावृषी
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः
इन्द्रादनवमश्शक्रं सुरसूनुस्सुराधिपम्
द्रष्टुमस्त्राणि चाऽऽदातुमिन्द्रादिति विवासितः
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः
धृतराष्ट्रस्य पुत्रेण धृता युधि महाबलाः
सर्वे वेदविदश्शूरास्सर्वेऽस्त्रकुशलास्तथा
सर्वे महारथा ख्यातास्सर्वे जितपरिश्रमाः
योद्धुकामाश्च पार्थेन सततं वै महाबलाः
स च दिव्यास्त्रवित्कर्णस्सूतपुत्रो महारथः
योऽस्त्रवेगानिलबलश्शरार्चिस्तलनिःस्वनः
रजोधूम्रोऽस्त्रसम्पातो धार्तराष्ट्रानिलोद्धतः
निसृष्ट इव कालेन युगान्तज्वलनो यथा
मम सैन्यमयं कक्षं प्रधक्ष्यति महाबलः
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान्
श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः
स च तं शरधाराभिः प्रदीप्तं कर्णपावकम्
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः
दिव्यान्यस्त्राणि बीभत्सुर्यथावत्प्रतिपत्स्यते
अलं स तेषां सर्वेषामिति मे धीयते मतिः
नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया
ते वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम्
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर
अवधानं न गच्छामः काम्यके सह कृष्णया
भवानन्यद्वनं साधु बह्वन्नं जलवच्छुचि
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः
यत्र कञ्चिद्वयं कालं वसन्तस्सत्यविक्रमम्
प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम्
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान्
सरांसि सरितश्चैव रमणीयांश्च पर्वतान्
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम्
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति