पुलस्त्यः-
अथ सन्ध्यां समासाद्य सम्बन्धे तीर्थ उत्तमे
उपस्पृश्य नरो विद्वान् भवेन्नास्त्यत्र संशयः
रामस्य तु प्रसादेन तीर्थं राजन्कृतं पुरा
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्
करतोयं समासाद्य त्रिरात्रोपोषितो नरः
अश्वमेधं दशगुणं पितामहकृतो विधिः
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
गङ्गायास्त्वपरं तीरं प्राप्य यस्स्नाति भारत
त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात्
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम्
विरजं तीर्थमासाद्य विराजति यथा शशी
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति
गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः
शोणस्य ज्योतिरथ्याश्च सङ्गमे स्नाति यो नरः
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्
ऋषभं तीर्थमासाद्य कोसलायां नराधिप
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्
कोसलां तु समासाद्य कलतीर्थमुपश्पृशेत्
ऋषभैकादशफलं लभते नात्र संशयः
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विन्देत् कुलं चैव समुद्धरेत्
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्
रामतीर्थे नरस्स्नात्वा वाजिमेधफलं लभेत्
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत्
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
श्रीपर्वते महादेवो देव्या सह महाद्युतिः
वसते परमप्रीतो ब्रह्मा च त्रिदशैस्सह
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम्
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
सिद्धचारणगन्धर्वा ऋषिसङ्घाप्सरोगणाः
ईशानं तत्र चाभ्यर्च्य त्रिरात्रोपोषितो नरः
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
भूतयक्षपिशाचाश्च किन्नरास्समहोरगाः
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा
सरितस्सागराश्शैला उपासन्त उमापतिम्
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
उष्य द्वादशरात्रं तु कृतात्मा च भविता नरः
तत एव च गायत्र्यास्स्थानं त्रैलोक्यविश्रुतम्
त्रिरात्रोपोषितस्तत्र गोसहस्रफलं लभेत्
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप
गायत्रीं पठते यत्र योनिसङ्करसम्भवः
गाथां च गीतिकां वापि तत्र सम्पद्यते नृप
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्
रूपस्य भागी भवति सुभगश्चैव जायते
ततो बेण्णां समासाद्य तर्पयेत्पितृदेवताः
मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नदीं सिद्धनिषेविताम्
अवाप्य गोमेधफलं वासुकेर्लोकमाप्नुयात्
बेण्णायास्सङ्गमे स्नात्वा वाजिमेधफलं लभेत्
वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं गच्छेत्स्वर्गलोकं च गच्छति
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः
त्रिरात्रमुषितस्स्नात्वा हयमेधफलं लभेत्
ततो देवह्रदे रम्ये कृष्णबेण्णाजलोद्भवे
जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः
अग्निष्टोमशतं विन्देद्गमनादेव भारत
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्
जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः
ततश्शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्
रामतीर्थे नरस्स्नात्वा विन्देद्बहु सुवर्णकम्
सप्तगोदावरे स्नात्वा नियतो नियताशनः
महत्पुण्यमवाप्नोति देवलोकं च गच्छति
ततो देवपथं गच्छेन्नियतो नियताशनः
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम्
पितृदेवार्चनपरो गोसहस्रफलं लभेत्
दण्डकारण्यमासाद्य महाराज उपस्पृशेत्
गोसहस्रफलं तस्य स्नातमात्रस्य भारत
शरभङ्गाश्रमं गत्वा विन्देद्बहु सुवर्णकम्
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः
वेदानध्यापयत्तत्र ऋषिस्सारस्वतः पुरा
तत्र वेदान् प्रनष्टांस्तु मुनेरङ्गिरसस्सुतः
उपविष्टो महर्षीणामुत्तरीयेषु भारत
ओङ्कारेण यथान्यायं सम्यगुच्चारितेन ह
येन तत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम्
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः
तथा नारायणो देवो महादेवस्तथैव च
पितामहश्च भगवान्देवैस्सह महाद्युतिः
भृगुं निवेदयामास याजनार्थे महाद्युतिम्
ततस्स चक्रे भगवानृषीणां विधिवत्तदा
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि
देवास्त्रिभुवनं याता ऋषयश्च यथासुखम्
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम
पापं प्रणश्यते सर्वं स्त्रिया वा पुरुषस्य वा
तत्र मासं वसेद्धीरो नियतो नियताशनः
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत्
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति
ततः कारञ्जरं गत्वा पर्वतं लोकविश्रुतम्
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्
योऽऽत्मानं साधयेत्तत्र गिरौ कारञ्जरे नृप
स्वर्गलोके स पूज्येत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते
मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम्
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
अग्निष्टोममवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्
यत्र देवो महादेवो नित्यं सन्निहितो नृप
पुमांस्तत्र नरश्रेष्ठ दर्शनादेव सिध्यति
कोटितीर्थे नरस्स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नृप
अभिगम्य महादेवं विराजति यथा शशी
तत्र कूपे महाराज विश्रुता भरतर्षभ
समुद्रास्तत्र चत्वारो निवसन्ति युधां वर
तत्रोपस्पृश्य राजेन्द्र कृत्वा चाभिप्रदक्षिणम्
नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गिबेरपुरं महत्
यत्र तीर्णो महाराज रामो दाशरथिः पुरा
गङ्गायां तु नरस्स्नात्वा ब्रह्मचारी समाहितः
विधूतपाप्मा भवति वाजपेयं च विन्दति
अभिगम्य महादेवमभ्यर्च्य च नराधिप
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्
ततो गच्छेत राजेन्द्र प्रयागमृषिभिस्स्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः
सनत्कुमारप्रमुखास्तथैव परमर्षयः
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे
तथा नागास्सुपर्णाश्च सिद्धाश्च परमर्षयः
सरितस्सागराश्चैव गन्धर्वाप्सरसस्तथा
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
त्रीणि चाप्यग्निकुण्डानि येषां मध्ये च जाह्नवी
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
यमुना गङ्गया सार्धं सङ्गता लोकपावनी
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरं तथा
तीर्थं भोगवती चैव नदी प्रोक्ता प्रजापतेः
तत्र देवाश्च यज्ञाश्च मूर्तिमन्तो युधां वर
प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः
यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप
ततः पुण्यतरं नास्ति त्रिषु लोकेषु भारत
प्रयागस्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो
श्रवणाच्च प्रयागस्य नामसङ्कीर्तनादपि
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः
पुण्यं फलमवाप्नोति राजसूयाश्वमेधयोः
एषा यजनभूमिर्हि देवानामपि सत्कृता
अत्र दत्तं सुसूक्ष्मं च महद्भवति भारत
न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति
दशतीर्थसहस्राणि षष्टिकोट्यस्तथाऽपराः
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन
चातुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्
स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत्
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन
यत्र गङ्गा महाराज स देशस्तत्तपोवनम्
अधीत्य द्विजमध्ये च विमलत्वमवाप्नुयात्
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम्
इदं सत्यं द्विजातीनां साधूनामात्मनश्च यत्
सुहृदां च समेतानां शिष्यस्यानुगतस्य च
इदं धर्म्यमिदं पु्ण्यमिदं मेध्यमिदं सुखम्
इदं स्वर्गमिदं रम्यं इदं पावनमुत्तमम्
महर्षीणामिदं पुण्यं सर्वपापप्रमोचनम्
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः
जातीश्च बह्वीस्स्मरतो नाकपृष्ठे च मोदते
अन्यान्यपि च तीर्थानि कीर्तितान्यागमानि च
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
एतानि वसुभिस्साध्यैरादित्यैर्मरुदश्विभिः
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते
भाषितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वया तु सत्यवृत्तेन नित्यं धर्मार्थदर्शिना
पितरस्तारितास्सर्वे सर्वे च प्रपितामहाः
पितामहपुरोगाश्च देवास्सर्षिगणा नृप
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः
अवाप्स्यसि च लोकांश्च वसूनां वासवोपम
कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम्
नारदः
एवमुक्त्वाऽभ्यनुज्ञातः पुलस्त्यो भगवानृषिः
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्
पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे
अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति
अश्वमेधफलं साग्रं फलं प्रेत्य स भोक्ष्यते
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्
भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान्
ऋषीन्नेतासि यस्मात्त्वं तेन तेऽष्टगुणं फलम्
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत
अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन
इदं देवर्षिचरितं सर्वतीर्थानुसञ्चितम्
यः पठेत् काल्यमुत्थाय सर्वपापैः प्रमुच्यते
ऋषिमुख्यास्सदा यत्र वाल्मीकिस्त्वथ काश्यपः
आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः
वसिष्ठश्च महातेजा मुनिरौद्दालकस्तथा
शौनकस्सह पुत्रेण व्यासश्च जपतां वरः
भारद्वाजो मुनिश्रेष्ठो दुर्वासाश्च महातपाः
एते ऋषिवरास्सर्वे त्वत्प्रतीक्षास्तपोधनाः
एभिस्सह महाराज तीर्थान्येतान्यनुव्रज
एष ते लोमशो नाम देवर्षिरमितद्युतिः
समेष्यति महाराज तेन सार्धमनुव्रज
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज
प्राप्स्यसे महतीं सिद्धिं यथा राजा महाभिषक्
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे
यथा भगीरथो राजा यथा रामश्च विश्रुतः
तथा त्वमपि राजेन्द्र भ्राजसे रश्मिवानिव
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः
यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा
तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन
ख्यातिं प्राप्स्यसि धर्मेण कार्तवीर्यार्जुनो यथा
वैशम्पायनः
एवमाश्वास्य राजानं नारदो भगवानृषिः
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थमचिन्तयत्
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत्