पुलस्त्यः-
ततो गच्छेत धर्मज्ञ धर्मतीर्थमनुत्तमम्
तत्र स्नात्वा नरो राजन्धर्मशीलस्समाहितः
आसप्तमं कुलं राजन्पुनीते नात्र संशयः
ततो गच्छेत धर्मज्ञ ज्ञानपावनमुत्तमम्
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
सिद्धचारणगन्धर्वकिन्नरास्समहोरगाः
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी
प्लक्षा देवी स्रुता राजन्महारण्या सरस्वती
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः
कपिलानां सहस्रं च वाजिमेधं च विन्दति
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः
सुगन्धाञ्शातकुम्भांश्च पञ्चयज्ञांश्च भारत
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः
ततो गच्छेत राजेन्द्र देव्यास्स्थानं सुदुर्लभम्
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता
दिव्यं वर्षसहस्रं हि शाकेन किल भारत
आहारं सा कृतवती मासिमासि नराधिप
ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः
आतिथ्यं च कृतं तेषां शाकेन किल भारत
ततश्शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम्
शाकम्भरीं समासाद्य ब्रह्मचारी जितेन्द्रियः
त्रिरात्रमुषितश्शाकं भक्षयेन्नियतश्शुचिः
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम्
तत्फलं तस्य भवति देव्याश्छन्देन भारत
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम्
यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा
वरांश्च सुबहूल्ँलेभे दैवतेषु सुदुर्लभान्
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
अपि चास्मत्प्रियतमो लोके कृष्ण भविष्यसि
त्वन्मुखं च जगत्सर्वं भविष्यति न संशयः
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
धूमावतीं ततो गच्छेत्त्रिरात्रोपोषितो नरः
मनसा प्रार्थितान्कामाल्ँलभते नात्र संशयः
देव्यास्तद्दक्षिणार्धे तु रथावर्तो नराधिप
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः
महादेवप्रसादाच्च गच्छेत परमां गतिम्
प्रदक्षिणमपावृत्य ततो गच्छेत भारत
धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम्
तत्र स्नात्वा नरव्याघ्र न शोचति नरो भुवि
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम्
अशीतियोजनशतं पुरस्तात्स्वर्गमुच्यते
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम्
स्वर्गद्वारेण तत्तुल्यं गङ्गाद्वारं न संशयः
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयेत्
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
कपिलावटं च गच्छेत तीर्थसेवी नराधिप
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
नागराजस्य राजेन्द्र कपिलस्य महात्मनः
तीर्थं तु भरतश्रेष्ठ सर्वलोकेषु विश्रुतम्
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप
कपिलानां सहस्रस्य फलं प्राप्नोति मानवः
ततो गच्छेत राजेन्द्र शन्तनोस्तीर्थमुत्तमम्
तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात्
गङ्गासमुद्रयोश्चैव स्नाति यस्सङ्गमे नरः
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम्
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति
ततः कुञ्जावनं गच्छेत्तीर्थसेवी यथाक्रमम्
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः
गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत्
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति सोमलोकं च गच्छति
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम्
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्
तत्रोषित्वा निशां पञ्च विन्देद्बहु सुवर्णकम्
अथ देवं समासाद्य नरः परमदुर्गमम्
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः
नरस्स्नात्वृषिकुल्यायामृषिलोकं प्रपद्यते
यदि तत्र वसेन्मासं शाकाहारो नराधिप
भृगुतुन्दं समासाद्य वाजिमेधफलं लभेत्
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति पुण्यकृत्
ततस्सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम्
उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत्
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने
एककालं निराहारो लोकान् प्राप्नोति पुष्कलान्
षष्ठाकालोपवासेन मासमुष्य महालये
सर्वपापविशुद्धात्मा विन्देद्बहु सुवर्णकम्
अथ वेतसिकं गत्वा पितामहनिषेवितम्
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः
ततो वै ब्राह्मणं गच्छेद्ब्रह्मचारी जितेन्द्रियः
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते
ततस्तु नैमिशं गच्छेत्पुण्यं सिद्धनिषेवितम्
तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः
नैमिशं प्रार्थयानस्य पापस्यार्धं प्रणश्यति
प्रविष्टमात्रस्तु नरस्सर्वपापैः प्रमुच्यते
तत्र मासं वसेद्धीरो नैमिशे तीर्थतत्परः
पृथिव्यां यानि तीर्थानि नैमिशे तानि भारत
अभिषेककृतस्तत्र नियतो नियताशनः
गवां मेधस्य यज्ञस्य फलं प्राप्नोति मानवः
पुनात्यासप्तमं चैव कुलं भरतसत्तम
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः
स मोदेत्सर्वलोकस्थ एवमाहुर्मनीषिणः
नित्यं पुण्यं च मेध्यं च नैमिशं कुरुसत्तम
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः
वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः
सारस्वतेषु लोकेषु मोदते नात्र संशयः
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः
देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानव
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम्
पितृदेवार्चनरतो वाजिमेधमवाप्नुयात्
विमलाशोकमासाद्य विराजति यथा शची
तत्रोषित्वा निशामेकां स्वर्गलोके महीयते
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम्
यत्र रामो गतस्स्वर्गं सभृत्यबलवाहनः
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा
रामस्य च प्रसादेन व्यवसायेन चानघ
तस्मिंस्तीर्थे नरस्स्नात्वा गोप्रतारे नराधिप
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
रामतीर्थे नरस्स्नात्वा गोमत्यां कुरुनन्दन
अश्वमेधमवाप्नोति पुनाति च कुलं नरः
शतसाहस्रकं तत्र तीर्थं भरतसत्तम
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्
कोटितीर्थे नरस्स्नात्वा अर्चयित्वा गुहं नृप
गोसहस्रफलं विद्यात्तेजस्वी च भवेन्नरः
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम्
गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम्
कपिलानां ह्रदे महादेवो गङ्गां समवगाहते
वारणस्यां विशेषेण यत्र विश्वेश्वरश्शिवः
देव्या सह महादेवो गङ्गां समवगाहते
तत्र मासं वसेद्धीरो ब्रह्मचारी समाहितः
यावज्जीवकृतं पापं मासेनैकेन शुद्ध्यति
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः
अश्वमेधमवाप्नोति गमनादेव भारत
यत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः
तत्र दत्तं पितॄणां तु अक्षय्यमुपपद्यते
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत्
ततो ब्रह्मसरो गच्छेद् ब्रह्मारण्योपशोभितम्
पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम्
तस्मिन् सरसि राजेन्द्र ब्रह्मणो यूप उद्धृतः
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम्
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
तत्र चिह्नं महद्राजन्नद्यापि हि न संशयः
कपिला सह वत्सेन पर्वते विचरत्युत
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि तत्र वै
तेषूपस्पृश्य राजेन्द्र पदेषु कुरुनन्दन
यत्किञ्चिदशुभं पुंसस्तत्प्रणश्यति भारत
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्
ब्राह्मणेन व्रतं चीर्णं भवेद् द्वादशवार्षिकम्
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम्
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ
तत्र सन्ध्यामुपासीत ब्राह्मणस्संशितव्रतः
उपासिता भवेत्सन्ध्या तेन द्वादशवार्षिकी
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
तत्राभिगम्य मुच्येत पुरुषो योनिसंसरात्
कृष्णशुक्लचतुर्दश्यां गङ्गायां यो वसेन्नरः
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत्
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्
तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम्
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप
उपस्पृश्य तपोदेषु कक्षीवानिव मोदते
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषश्शुचिः
यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया
मणिनागं ततो गत्वा गोसहस्रफलं लभेत्
तैर्थिकं भुञ्जते यस्तु मणिनागस्य मानवः
दष्टस्याशीविषेणाऽऽशु न तस्य क्रमते विषम्
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते
ततो गच्छेत ब्रह्मर्षेर्गौतमस्याऽऽश्रमं नरः
अहल्याया ह्रदे गत्वा गच्छेत परमां गतिम्
अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम्
तत्रोदपानं धर्मज्ञ त्रिषु लोकेषु विश्रुतम्
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात्
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात्
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम्
वाजपेयमवाप्नोति सोमलोकं च गच्छति
गण्डकीयं ततो गच्छेत्सर्वतीर्थजलोद्भवाम्
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति
ततो विपाशां धर्मज्ञ समाविश्य तपोधन
गुह्यकेषु महाराज मोदते नात्र संशयः
अथ किम्पुरमासद्य नदं सिद्धनिषेवितम्
पौण्डरीकमवाप्नोति सूर्यलोकं च गच्छति
ततो विशल्यमासाद्य नदं त्रैलोक्यविश्रुताम्
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति
अथ माहेश्वरीं धारां समासाद्य नराधिप
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
दिवौकसां पुष्करिणीं समासाद्य नरश्शुचिः
न दुर्गतिमवाप्नोति वाजिमेधं फलं लभेत्
माहेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ
कूर्मरूपेणासुरेण रजन्यां वै दुरात्मना
ह्रियमाणा हृता पूर्वं विष्णुना प्रभविष्णुना
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर
पौण्डरीकमवाप्नोति विष्णुलोकं च गच्छति
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य वै
सदा सन्निहितो यत्र विष्णुर्वसति भारत
सालग्राम इति ख्यातो विष्णुर्वसति भारत
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम्
समुद्रास्तत्र चत्वारः कूपे सन्निहितास्सदा
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात्
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्
विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः
वटेश्वरपुरे योगी अर्चयित्वा तु केशवम्
ईप्सिताल्ँलभते कामानुपवासान्न संशयः
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात्
भरतस्याऽऽश्रमं गच्छेत्सर्वपापप्रमोचनम्
कौशिकीमभिसेवेत महापापप्रणाशिनीम्
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम्
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
अथ जेष्ठिलमासाद्य तीर्थं भरतसत्तम
उपोष्य रजनीमेकां गोसहस्रफलं लभेत्
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्
मित्रावरुणयोर्लोकानाप्नोति भरतर्षभ
कन्यासंवेद्यमासाद्य नियतो नियताशनः
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत
तदक्षय्यमिति प्राहू ऋषयस्संशितव्रताः
निश्चीरां तु समासाद्य त्रिषु लोकेषु विश्रुतम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः
तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः
तत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ
अश्वमेधेन यत्पुण्यं तन्मासेनाधिगच्छति
सर्वतीर्थमये चैव यो वसेत महाह्रदे
न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम्
कुमारमभिगत्वा च वीराश्रमनिवासिनम्
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्
अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते
पितामहसरो गत्वा शैलराजप्रतिष्ठितम्
तत्राभिषेकं कुर्वाण अग्निष्टोममवाप्नुयात्
पितामहस्य सरसः प्रस्रुता लोकपावनी
कुमारधारा सरसः प्रसूता लोकपावनी
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम्
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत्
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
हयमेधमवाप्नोति शक्रलोकं च गच्छति
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम्
नरमेधस्य यत्पुण्यं तत्राऽऽप्नोति कुरूद्वह
कालङ्क्यासङ्गमे स्नात्वा कौशिक्यरुणयोः पुनः
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते
उर्वशीतीर्थमासाद्य ततस्सोमाश्रमं व्रजेत्
कुम्भकर्णाश्रमे गत्वा पूज्यते दिवि मानवः
कोकामुखमुपस्पृश्य ब्रह्मचारी यतव्रतः
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनम्
भृगुतुन्दं समासाद्य विपाप्मा भवति द्विजः
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति
सकृन्नद्यां समासाद्य पूतात्मा भवति द्विजः
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम्
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते
औद्दालकं समासाद्य तीर्थं मुनिनिषेवितम्
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मनिषेवितम्
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः
अथ चापां समासाद्य भागीरथ्यां कृतोदकः
दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत्
ततो लवेलिकां गच्छेत्पुण्यां पुण्योपसेविताम्
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते