पुलस्त्यः-
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
पापेभ्यो विप्रमुच्यन्ते तद्गतास्सर्वजन्तवः
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते
तत्र मासं वसेद्वीरस्सरस्वत्यां युधां वर
यत्र ब्रह्मादयो देवा ऋषयस्सिद्धचारणाः
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत
मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधां वर
पापानि विप्रणश्यन्ति स्वर्गलोकं च गच्छति
गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततश्च मन्दुकं राजन्द्वारपालं महाबलम्
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्
ततो गच्छेत धर्मज्ञ विष्णोस्स्थानमनुत्तमम्
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः
तत्र स्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः
पृथिव्यास्तीर्थमासाद्य गोसहस्रमवाप्नुयात्
ततश्शालूकिनीं गत्वा तीर्थसेवी नराधिप
दशाश्वमेधे स्नात्वा च तदेव लभते फलम्
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम्
अग्निष्टोममवाप्नोति नागलोकं च गच्छति
ततो गच्छेत धर्मज्ञ द्वारपालमरन्दुकम्
तत्रोष्य राजनीमेकां गोसहस्रफलं लभेत्
ततः पञ्चनदं गत्वा नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह
पौण्डरीकमवाप्नोति कृतशौचो भवेन्नरः
ततो मुञ्जवटं नाम महादेवस्य धीमतः
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात्
तत्रैव च महाराज यक्षी लोकपरिश्रुता
तां चाभिगम्य राजेन्द्र पुण्यलोकानवाप्नुयात्
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः
सम्मिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः
जामदग्न्येन रामेण आहृते सुमहात्मना
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप
तत्र रामेण राजेन्द्र तरसा दीप्ततेजसा
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतिः
पितरस्तर्पितास्सर्वे तथैव च पितामहाः
ततस्ते पितरः प्रीता राममूचुर्महीपते
राम राम महाभाग प्रीतास्स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण च ते विभो
वरं वृणीष्व भद्रं ते यदीच्छसि महाद्युते
एवमुक्तस्स राजेन्द्र रामः प्रहरतां वरः
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गमने स्थितान्
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि
पितृप्रसादादिच्छेयं तपस्याप्यायनं पुनः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
ततस्तु पापान्मुच्येयं युष्माकं तेजसाऽस्म्यहम्
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः
ह्रदेषु तेषु यस्स्नात्वा पितॄन्सन्तर्पयिष्यति
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम्
समीप्सितं मनःकामं स्वर्गलोकं च शाश्वतम्
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा
आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्दधुस्तदा
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके
कायशोधनमासाद्य तीर्थं भरतसत्तम
शरीरशुद्धिस्स्नातस्य तस्मिंस्तीर्थे न संशयः
शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान्
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना
लोकोद्धारं समासाद्य तीर्थसेवी कुरूद्वह
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान्
श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम्
कापिलं तीर्थमासाद्य ब्रह्मचारी समाहितः
तत्र स्नात्वाऽर्चयित्वा तु देवताश्च पितॄंस्तदा
कपिलानां सहस्रस्य फलं विन्दति भारत
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः
अर्चयित्वा पितॄन्देवानुपवासपरायणः
अग्निष्टोममवाप्नोति सूर्यलोकं च विन्दति
गवां भवनासाद्य तीर्थसेवी यथाक्रमम्
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्
शङ्खिनीं तत आसाद्य तीर्थसेवी कुरूद्वह
देव्यास्तीर्थे नरस्स्नात्वा लभते रूपमुत्तमम्
ततो गच्छेत राजेन्द्र द्वारपालमरुन्तुकम्
तस्य तीर्थं समासाद्य यक्षेन्द्रस्य महात्मनः
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नराधिप
ब्रह्मावर्ते नरस्स्नात्वा ब्रह्मलोकमवाप्नुयात्
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम्
तत्र सन्निहिता नित्यं पितरो दैवतैस्सह
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अश्वमेधमावाप्नोति पितृलोकं च गच्छति
ततोऽम्बवश्यं धर्मज्ञ समासाद्य यथाक्रमम्
कौशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत
प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम्
ततश्शीतवनं गच्छेन्नियतो नियताशनः
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्
पुनाति गमनादेतद्दण्डनैकं नराधिप
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः
गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम
श्वानलोमापनयने तीर्थे भरतसत्तम
प्राणायामैर्निर्हरन्ति श्वानलोमान्द्विजोत्तमाः
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः
तस्मिंस्तीर्थे नरस्स्नात्वा ब्रह्मचारी जितेन्द्रियः
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते
आगता नाम विख्याता नदी सिद्धनिषेविता
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजितः
तत्र स्नात्वाऽर्चयित्वा च पितृन्स्वान् दैवतानि च
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्
ततो गच्छेत राजेन्द्र ब्रह्मणस्स्थानमुत्तमम्
ब्रह्मोदुम्बरमित्येव प्रकाशं भरतर्षभ
तत्र सप्तर्षिकुण्डेषु स्नातस्य नरपुङ्गव
केदारे चैव राजेन्द्र कपिष्ठलमहामुनेः
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्
अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः
ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम्
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्
लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन
रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते
इडास्पदं च तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च भारत
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
किन्दाने च नरस्स्नात्वा किञ्जप्ये च महीपते
अप्रमेयमवाप्नोति दानं जप्यं च भारत
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत
शङ्करस्य तु पूर्वेण नारदस्य महात्मनः
तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम्
तत्र तीर्थे नरस्स्नात्वा प्राणांश्चोत्सृज्य भारत
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान्
शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत्
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत्
तत्र त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र वैतरणी पुण्या नदी पापप्रमोचनी
तत्र स्नात्वाऽर्चयित्वा च पूजयित्वा वृषध्वजम्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेत राजेन्द्र फलजीवनमुत्तमम्
तत्र देवास्सदा राजन्फलजीवनमाश्रिताः
नभश्चरन्ति विपुलं बहुवर्षसहस्रकम्
दृषद्वत्यां नरस्स्नात्वा तर्पयित्वा च देवताः
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम
गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः
पाणिखाते नरस्स्नात्वा तर्पयित्वा च देवताः
तत्र स्नात्वा नरो राजन्सर्वयज्ञफलं लभेत्
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
राजसूयमावाप्नोति ऋषिलोकं च विन्दति
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्
यत्र तीर्थानि सर्वाणि मिश्रितानि महात्मना
व्यासेन नृपशार्दूल द्विजार्थमिति नश्श्रुतम्
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः
ततो व्यासवनं गत्वा नियतो नियताशनः
मनोजवे नरस्स्नात्वा गोसहस्रफलं लभेत्
गत्वा मधुपदीं चैव देव्यास्तीर्थे नरश्शुचिः
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः
स देव्या समनुज्ञातो गोसहस्रफलं लभेत्
कौशिक्यास्सङ्गमे यस्तु दृषद्वत्याश्च भारत
स्नाति वै नियताहारस्सर्वपापैः प्रमुच्यते
ततो व्यासस्थली नाम यत्र व्यासेन धीमता
पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः
कृतो वै देवराजेन पुनरुत्थापितस्तदा
अभिगत्वा स्थलीं तत्र गोसहस्रफलं लभेत्
किन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च
गच्छेत् पारमिकां सिद्धिमृणैर्मुक्तः कुरूद्वह
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे
तयोस्स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्
व्यङ्गधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र गङ्गाह्रदे स्नात्वा ह्यर्चयित्वा च भारत
शूलपाणिं महादेवमश्वमेधफलं लभेत्
देवतीर्थे नरस्स्नात्वा गोसहस्रफलं लभेत्
ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात्
कुलम्पुने नरस्स्नात्वा पुनाति स्वकुलं नरः
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम्
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते
श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्नग्निष्टोमवाप्नुयात्
ततो नैमिशकुञ्जं तु समासाद्य यथाक्रमम्
ऋषयः किल राजेन्द्र नैमिशीयास्तपोधनाः
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा
ततः कुञ्जस्सरस्वत्याः कृतो भरतसत्तम
ऋषीणामवकाशस्स्याद्यथा तुष्टिकरो भवेत्
तस्मिन्कुञ्जे नरस्स्नात्वा अग्निष्टोमफलं लभेत्
कन्यातीर्थे नरस्स्नात्वा गोसहस्रफलं लभेत्
ततो गच्छेन्नरव्याघ्र ब्रह्मणस्तीर्थमुत्तमम्
तत्र वर्णान्तरस्स्नात्वा ब्राह्मण्यं लभते नरः
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम्
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप
यत्र मङ्कणकस्सिद्धो महर्षिर्लोकविश्रुतः
पुरा मङ्कणको राजन्कुशाग्रेणेति विश्रुतम्
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः
प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत्
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
ब्रह्मादयः-
ब्रह्मादिभिस्सुरै राजनृषिभिश्च तपोधनैः
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप
यथा न नृत्यते देव तथा त्वं कर्तुमर्हसि
पुलस्त्यः-
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत
देवः-
भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव
ऋषिः-
किं न पश्यसि मे देव कराच्छाकरसं स्रुतम्
यं दृष्ट्वाऽहं प्रनृत्तो वै हर्षेण महताऽन्वितः
पुलस्त्यः-
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्
अहं वै विस्मयं विप्र न गच्छामीति पश्य माम्
एवमुक्तो नरश्रेष्ठ महादेवेन वै तदा
अङ्गुष्ठाग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत्
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम्
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
ऋषिः-
नान्यं देवमहं मन्ये रुद्रात्परतरं महत्
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत्
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये
देवैरपि न शक्यं ते परिज्ञातुं कुतो मया
त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह
त्वत्प्रसादात्सुरास्सर्वे निवसन्त्यकुतोभयाः
पुलस्त्यः-
ऋषिः-
एवं स्तुत्वा महादेवमृषिस्स प्रणतोऽभवत्
त्वत्प्रसादान्महादेव तपो मे न क्षयेत वै
पुलस्त्यः-
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्
देवः-
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सह महामुने
सप्तसारस्वते स्नात्वा यो मामर्चयिता द्विजः
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः
पुलस्त्यः-
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
कार्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया
कपालमोचनं तीर्थं सर्वपापप्रमोचनम्
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत्
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा नरव्याघ्र ब्राह्मण्यमभिजायते
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्
पृथूदकमिति ख्यातं कार्तिकेयस्य धीमतः
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अज्ञानाज्ज्ञानतो वाऽपि स्त्रिया वा पुरुषेण वा
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत
अश्वमेधफलं चापि स्वर्गलोकं च गच्छति
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्
अश्वमेधफलं चापि स्वर्गलोकं च गच्छति
पृथूदके जप्यपरो नैव श्वो मरणं तपेत्
गीतं सनत्कुमारेण व्यासेन च महात्मना
वेदे च नियतं राजन् अभिगच्छेत्पृथूदकम्
पृथूदकात्पुण्यतरं नान्यत्तीर्थं नरोत्तम
एतन्मेध्यं पवित्रं च पावनं च न संशयः
तत्र स्नात्वा दिवं यान्ति येऽपि पापकृतो नराः
पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः
मधुस्रवं च तत्रैव तीर्थं कुरुकुलोद्वह
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम्
सरस्वत्यारुणायाश्च सङ्गमे लोकविश्रुते
त्रिरात्रोपोषितस्स्नात्वा मुच्यते ब्रह्महत्यया
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः
आसप्तमं कुलं चैव पुनाति भरतर्षभ
अतीव तीर्णं तत्रैव तीर्थं कुरुकुलोद्वह
विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मितं पुरा
व्रतोपनयनाभ्यां वाऽप्युपवासेन वा द्विजः
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणस्स्यान्न संशयः
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने
समुद्राश्चापि चत्वारश्शार्ङ्गिणाऽत्र समाहिताः
यत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात्
फलानि गोसहस्राणां चतुर्णां विन्दते च सः
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम्
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते
उभयोर्हि नरस्स्नात्वा गोसहस्रफलं लभेत्
दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत्
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्
तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीपते
अन्वास्यते कुरुश्रेष्ठ नारायणपुरोगमैः
सान्निध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूत्तम
अर्चयित्वा नदीं देवीं न दुर्गतिमवाप्नुयात्
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः
पुण्येन महता युक्तस्सतां लोके महीयते
यत्र योगेश्वरस्स्थाणुस्स्वयमेव वृषध्वजः
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति
औजसं चारुणं तीर्थं स्नात्वा दीप्यति तेजसा
यत्र ब्रह्मादिभिर्दैवैर्ऋषिभिश्च तपोधनैः
सैनापत्येन देवानामभिषिक्तो गुहस्तदा
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह
कुरुतीर्थे नरस्स्नात्वा ब्रह्मचारी जितेन्द्रियः
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति
ततो गच्छेत नरकं तीर्थसेवी कुरूद्वह
तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात्
तत्रैव च महाराज विश्वेश्वरमुमापतिम्
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
नारायणं चाभिगम्य पद्मनाभमरिन्दम
शोभमानो महाराज विष्णुलोकं प्रपद्यते
तीर्थेषु सर्वदेवानां स्नातस्स पुरुषर्षभ
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः
ततस्स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत्
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ
तिस्रः कोट्यश्च तीर्थानां तस्मिन्कूपे महीपते
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते
आपगायां नरस्स्नात्वा अर्चयित्वा महेश्वरम्
गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम्
ततस्स्थाणुवनं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
बदरीपावनं गच्छेद्वसिष्ठस्याऽऽसश्रमं गतः
बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः
सम्यग्द्वादशवर्षाणि बदरादस्य यत्फलम्
त्रिरात्रोपोषितस्यैव भवेत्तुल्यं नराधिप
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप
अहोरात्रोपवासेन शक्रलोके महीयते
एकरात्रं समासाद्य एकरात्रोषितो नरः
नियतस्सत्यवादी च ब्रह्मलोके महीयते
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्
आदित्यस्याश्रमं गत्वा तेजोराशेर्महात्मनः
तस्मिंस्तीर्थे नरस्स्नात्वा स्थानं महदवाप्नुयात्
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
सोमतीर्थं नरो गत्वा तीर्थसेवी कुरूद्वह
सोमलोकमवाप्नोति स वै नास्त्यत्र संशयः
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः
तस्मिंस्तीर्थे नरस्स्नात्वा वाजिमेधफलं लभेत्
सारस्वतीं गतिं चैव लभते नात्र संशयः
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यया
त्रिरात्रमुषितो राजन्नुपवासपरायणः
लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतामपि
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
मासिमासि समायान्ति पुण्येन महताऽन्विताः
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
अश्वमेधशतस्याग्र्यं फलं प्राप्नोति मानवः
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च
नद्यो नदास्तटाकानि सर्वप्रस्रवणानि च
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च
मासि मासि समायान्ति सन्निहत्यां न संशयः
यत्किञ्चिद्दुष्कृतं कर्म स्त्रियो वा पुरुषेण वा
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति
अभिवाद्य ततो यक्षं द्वारपालमरुन्दुकम्
कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम्
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम
तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम्
पृथिव्यां नैमिशं पुण्यमन्तरिक्षे च पुष्करम्
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते
ब्राह्मी वेदिः कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्
सदा वसन्ति ये राजन्न ते शोच्याः कथञ्चन
अरन्दुकारुन्दुकयोर्यदन्तरं रामह्रदानां च मरुन्दुकस्य
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते