नारदः-
शृणु राजन्नवहितो यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा
शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा
कस्य चित्त्वथ कालस्य जपन्नेव महातपाः
ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम्
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ
उपस्थितं महाभागं पूजयामास भारत
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
शिरसा चार्घमादाय शुचिः प्रयतमानसः
नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
भीष्मः-
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव सन्दर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः
नारदः-
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत्
पुलस्त्यः-
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग परितुष्टोऽस्मि सर्वशः
यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिर्ह्यास्ति मम त्वयि
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ
भीष्मः-
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम्
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं सन्देहं तन्मे त्वं वक्तुमर्हसि
अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः
तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया
प्रदक्षिणां यः पृथिवीं करोत्यमितविक्रमः
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन
पुलस्त्यः-
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
प्रतिग्रहादपावृत्तस्सन्तुष्टो येन केन चित्
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
विमुक्तस्सर्वपापेभ्यस्स तीर्थफलमश्नुते
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासम्भारविस्तराः
प्राप्यन्ते पार्थिवैरेतैस्समृद्धैर्वा नरैः क्वचित्
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः
यो दरिद्रैरपि विधिश्शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर
ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
अनपोष्य त्रिरात्राणि तीर्थान्यनवगाह्य च
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलं समश्नाति तीर्थाभिगमनेन यत्
त्रिलोकदेवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महाभागस्समाविशेत्
दशकोटिसहस्राणि तीर्थानां वै महीपते
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन
आदित्या वसवो रुद्रास्साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महताऽन्विताः
मनसाऽप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसत्तमः
पुष्करेषु महाभाग देवास्सर्षिगणाः पुरा
सिद्धिं सुमहतीं प्राप्ताः पुण्येन महताऽन्विताः
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
सोऽश्वमेधमवाप्नोति ब्रह्मलोके च पूज्यते
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते
शाकैर्मूलैः फलैर्वाऽपि येन वर्तयते स्वयम्
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः
ब्राह्मणाः क्षत्रियो वैश्यश्शूद्रो वा राजसत्तम
न वियोनिं व्रजन्त्येते स्नातास्तीर्थेषु भारत
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम्
फलं तत्राक्षयं तस्य लभते भरतर्षभ
सायं प्रातस्स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
प्राप्नुयाच्च नरो लोकान्ब्रह्मणस्सदनेऽक्षयान्
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते
उष्य द्वादशवर्षाणि पुष्करे नियतश्शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्
उष्य द्वादशरात्रं तु नियतो नियताशनः
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत्
जम्बूमार्गं समासाद्य देवर्षिपितृसेवितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम्
न दुर्गतिमवाप्नोति ब्रह्मलोके च पूज्यते
आगस्त्यं सर आसाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्
शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम्
कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकविश्रुतम्
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ
यत्र प्रविष्टमात्रोऽसौ पापेभ्यो विप्रमुच्यते
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः
सर्वकामसमृद्धस्स्याद्यज्ञस्य फलमश्नुते
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै
महाकालं ततो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
ततो गच्छेत धर्मज्ञस्स्थाणोस्तीर्थमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः
राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात्
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत्
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति
चर्मिलामथ सम्प्राप्य नियतो नियताशनः
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम्
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी समाहितः
कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते
ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम्
तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम्
तत्र सन्निहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
ततो गत्वा सरस्वत्यास्सागरस्य च सङ्गमे
गोसहस्रफलं तस्य स्वर्गलोके महीयते
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
तत्र स्नात्वाऽपि राजेन्द्र विमलार्कसमद्युतिः
त्रिरात्रमुषितस्तत्र तर्पयन्पितृदेवताः
प्रभासते यथा सोमो वाजिमेधं च विन्दति
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
वरदाने नरस्स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिण्डारके नरस्स्नात्वा लभेद्बहुसुवर्णकम्
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ
सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
द्रमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्
तत्र स्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः
द्रमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान्
ततो गच्छेत राजेन्द्र वसोर्धारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात्
स्नात्वा कुरुकुलश्रेष्ठ प्रयतात्मा तु मानवः
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते
तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत्
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम्
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात्
रेणुकायाश्च तत्रैव तीर्थं देवर्षिसेवितम्
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा
अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः
ततो गच्छेत धर्मज्ञ भीमायास्स्थानमुत्तमम्
तत्र स्नात्वा न योन्यां वै भवेद्भरतसत्तम
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत्
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्यास्सौवर्णराजताः
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः
गवां शतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः
ततो निवृत्तो राजेन्द्र भद्रापदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत्
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ
त्रिशूलपाणेस्स्थानं च त्रिषु लोकेषु विश्रुतम्
देविकायां नरस्स्नात्वा अथाभ्यर्च्य महेश्वरम्
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत
यजनं याजनं चैव तथैव ब्रह्मवालुकाम्
पुष्पञ्जय उपस्पृश्य न शोचेन्मरणं गतः
अर्धयोजनविस्तारां पञ्चयोजनमायताम्
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम्
ततो गच्छेत धर्मज्ञ दीर्घसूत्रं यथाश्रुतम्
यत्र ब्रह्मादयो देवास्सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः
गमनादेव राजेन्द्र दीर्घसत्रमरिन्दम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततो विनशनं गच्छेन्नियतो नियताशनः
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती
चमसे चमसोद्भेदे नागोद्भेदे च दृश्यते
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
स्नात्वा तु चमसोद्भेदे गोसहस्रफलं लभेत्
शिवोद्भेदे नरस्स्नात्वा गोसहस्रफलं लभेत्
शतह्रदं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत
सरस्वत्यां महाराज शतं संवत्सरा हि ते
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं तदा
कुमारकोटीमासाद्य नियतः कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवां मेधमवाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समास्थितः
पुरा यत्र महाराज ऋषिकोटिस्समागता
प्रहर्षेण च संविष्टा रुद्रदर्शनकाङ्क्षया
अहम्पूर्वमहम्पूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं सम्प्रस्थिता राजन्नृषयः किल भारत
ततो योगीश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्
स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतस्स्थिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्
तेषां तुष्टो महादेवो ऋषीणां भावितात्मनाम्
भक्त्या परमया तेषां वरं राजन् प्रदिष्टवान्
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरश्शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम्
सरस्वत्या महाराज उपासन्ते जनार्दनम्
यत्र ब्रह्मादयो देवा ऋषयस्सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्
सर्वपापविशुद्धात्मा ब्रह्मलोकं स गच्छति
ऋषीणां यत्र सत्राणि समवाप्नोति मानवः
तत्रावसानमासाद्य गोसहस्रफलं लभेत्