बृहदश्वः-
भगवन्काम्यकान्पार्थे गते मे प्रपितामहे
किमकुर्वत पार्थास्ते तमृते सव्यसाचिनम्
स हि तेषां महेष्वासो गतिरासीदनीकजित्
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे
तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना
विनाभूताः कथं पार्थाः कथमासन्पितामहाः
वैशम्पायनः
गते तु काम्यकान् तात पाण्डवे सव्यसाचिनि
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इवाण्डजाः
अप्रीतमनसस्सर्वे बभूवुरथ पाण्डवाः
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा
कुबेरेण यथा हीनं वनं चैत्ररथं तथा
तमृते ते नरव्याघ्राः पाण्डवा जनमेजय
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा
ब्राह्मणार्थे पराक्रान्ताश्शुद्धैर्बाणैर्महारथाः
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिन्दमाः
प्रविसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन्
एवं ते न्यवसंस्तत्र सोमपाः पुरुषर्षभाः
विषण्णवदनास्तत्र गते राजन्धनञ्जये
अथ विप्रोषितं राजन्पाञ्चाली मध्यमं पतिम्
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत्
द्रौपदी-
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
तमृते पाण्डवश्रेष्ठं वनं नाभाति मामकम्
शून्यामिव प्रपश्यामि तत्र तत्र महीमिमाम्
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्
न तथा रमणीयं वै तमृते सव्यसाचिनम्
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम्
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे
यस्य वा धनुषो घोषश्श्रूयते चाशनिस्वनः
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम्
वैशम्पायनः-
तथा लालप्यमानां तां निशाम्य परवीरहा
भीमसेनो महाराज द्रौपदीमिदमब्रवीत्
भीमसेनः-
मम प्रीतिकरं मन्ये यद्ब्रवीषि सुमध्यमे
तन्मे प्रीणाति हृदयममृतप्राशनोपमम्
यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ
तमृते पुरुषव्याघ्रं नष्टसूर्यनिभं वनम्
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा
सुराणामपि यत्तानां पृतनासु न बिभ्यति
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्
नकुलः-
य उदचीं दिशं गत्वा युधि जित्वा महाबलान्
गन्धर्वमुख्याञ्शतशो हर्याल्ँलेभे स वासविः
राजंस्तित्तिरिकल्माषाञ्श्रीमतोऽनिलरंहसः
प्रादाद्धात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ
तमृते भीमधन्वानं भीमादवरजं वने
कामये काम्यके वासं नेदानीममरोपम
सहदेवः
यो धनानि च कन्याश्च युधि जित्वा महारथान्
शतशो घातयित्वाऽरीन्पृतनामध्यगस्तदा
यस्समेतान्मृधे जित्वा यादवानमितद्युतिः
एकस्सुभद्रामारोप्य वासुदेवस्य सम्मते
येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः
आचार्यदक्षिणा दत्ता रणे द्रोणस्य भारत
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने
हृदयं मे महाराज न शाम्यति कदाचन
वनादस्माद्विवासं तु रोचयेऽहमरिन्दम
न हि नस्तमृते वीरं रमणीयमिदं वनम्
वैशम्पायनः
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
स तैः परिवृतश्श्रीमान्भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः
यथा च वेदैस्सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
अर्घ्यं पाद्यमथानीय त्वभ्यवादयदच्युतः
नारदस्तु महातेजास्स्वस्त्यस्त्वित्यभ्यभाषत
प्रतिगृह्य च तां पूजां नारदो भगवानृषिः
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ
नारदः-
उवाच च महाप्राज्ञं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते
वैशम्पायनः-
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिस्सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम्
युधिष्ठिरः-
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत
यदि त्वहमनुग्राह्यो भ्रातृभिस्सहितोऽनघ
सन्देहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि
प्रदक्षिणां यः पृथिवीं प्रतस्थे तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन त्वं ब्रह्मन्वक्तुमर्हति