बृहदश्वः-
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
पुरादल्पपरीवारो जगाम निषधान्प्रति
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः
पञ्चाशद्भिर्हयैश्चापि षट्शतैश्च पदातिभिः
स कम्पयन्निव महीं त्वरमाणो महापतिः
प्रविवेशाथ संरब्धस्तरसैव महामनाः
ततः पुष्करमासाद्य वीरसेनसुतो नलः
उवाच दीव्याव पुनर्बहुवित्तं मयाऽऽर्जितम्
दमयन्ती च यच्चान्यन्मया वसु समार्जितम्
एष वै मम सन्न्यासस्तव राज्यं तु पुष्कर
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः
एकपाणेन भद्रं ते पणयोश्च पणावहे
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्
द्वैरथेनापि वै शान्तिस्तव वा मम वा नृप
वंशभोज्यमिदं राज्यमास्थितव्यं यथातथम्
येनकेनाप्युपायेन वृद्धानामिति शासनम्
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव
ध्रुवमात्मजयं मत्वा प्रत्याह नृपतिं तदा
पुष्करः-
दिष्ट्या त्वयाऽर्जितं द्रव्यं प्रतिपाणाय नैषध
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्
दिष्ट्या वै प्रीयसे राजन्सदारोऽरिनिबर्हणः
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम
जितेनानेन वैदर्भी यत्नेन समलङ्कृता
मामुपस्थास्यति व्यक्तं दिवि शक्रं शची यथा
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः
जित्वाऽद्यैव वरारोहां दमयन्तीमनिन्दिताम्
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि
बृहदश्वः-
श्रुत्वा तु तस्य तां वाचं बह्वबद्धप्रलापिताम्
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः
स्मयंस्तु रोषताम्राक्षो वचनं तमुवाच सः
नलः-
पणावः किं व्याहरसे जितो न व्याहरिष्यसि
बृहदश्वः-
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च
एकपाणेन भद्रं ते नलेन स पराजितः
सरत्नकोशनिचयः पणेन पणितोऽपि च
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
नलः-
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्
वैदर्भी न त्वया शक्या राजापशद वीक्षितम्
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः
न तत् त्वया कृतं कर्म येनाहं विजितस्त्वया
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे
नाहं परकृतं दोषं त्वय्यादास्ये कथञ्चन
यथासुखं वै त्वं जीव प्राणानवसृजामि ते
तथैव च मम प्रीतिस्त्वयि वीर न संशयः
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति
पुष्कर त्वं हि मे भ्राता सञ्जीव त्वं शतं समाः
बृहदश्वः-
एवं नलस्सान्त्वयित्वा भ्रातरं सत्यविक्रमः
पुष्करं क्षमयामास सान्त्वयित्वा पुनःपुनः
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच ह
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः
पुष्करः-
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव
बृहदश्वः-
स तथा सान्त्वितो राज्ञा मासमुष्य तदा नृपः
प्रययौ स्वपुरीं हृष्टः पुष्करस्स्वजनावृतः
महत्या सेनया सार्धं विनीतैः परिचारकैः
भ्राजमान इवाऽऽदित्यो वपुष्मान् कुरुनन्दन
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्
प्रविवेश पुरं रम्यमत्यर्थमुपशोभितम्
प्रविश्य सान्त्वयामास पौरान्स निषधाधिपः
हितेषु चैषां सततं पितेवावहितोऽभवत्
बृहदश्वः-
प्रशान्ते तु पुरे हृष्टो वसन् हृष्टमहोत्सवे
महत्या सेनया राजा दमयन्तीमुपानयत्
पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः
मुदा परमया युक्तो बभूव भरतर्षभ
अथ हृष्टमना राजा महत्या सेनया सह
सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते
दमयन्तीमपि पिता सत्कृत्य परवीरहा
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः
वर्तयामास मुदितो देवराडिव नन्दने
तथा प्रकाशतां यातो जम्बूद्वीपेषु राजसु
पुनस्स्वे न्यवसद्राज्ये प्रत्याहृत्य महायशाः
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः
देवनेन नृपश्रेष्ठ सभार्यो भरतर्षभ
एकाकिनैव सुमहन्नलेन पृथिवीपते
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना
इतिहासमिमं चापि कलिनाशनमच्युते
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशां पते
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा
तस्यापाये व्यये चैव तदाश्वासितुमर्हसि
ये चैतत् कथयिष्यन्ति नलस्य चरितं महत्
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति
अर्थाश्चास्योपपद्यन्ते धन्यतां च गमिष्यति
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम्
अरोगाः प्रीतिमन्तश्च भविष्यन्ति न संशयः
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव
वैशम्पायनः-
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते
ततो हृष्टमना राजा बृहदश्वमुवाच ह
युधिष्ठिरः-
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः
वैशम्पायनः-
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने
लब्ध्वा च पाण्डवो राजा विशोकस्समपद्यत
कथामेवं तथा कृत्वा नलस्य चरिताश्रयाम्
आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्
वर्तमानं तपस्युग्रे वायुभक्षं महर्षिणम्
ब्राह्मणेभ्यस्तपस्विभ्यस्सम्पतद्भ्यस्ततस्ततः
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः
इति पार्थो महाबाहुरुदारं तप आस्थितः
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः
मुनिरेकचरश्श्रीमान्धर्मो विग्रहवानिव
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने
अन्वशोचत कौन्तेयं प्रियं वै भ्रातरं जयम्
दह्यमानेन तु हृदा शरणार्थी महावने
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः
प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः
आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः
अपश्यन्नर्जुनं तत्र बभूवाश्रुपरिप्लुतः
सन्तप्यमानः कौन्तेयो भीमसेनमुवाच ह
युधिष्ठिरः-
कदा द्रक्ष्यामि वै भीम पार्थमत्र तवानुजम्
मत्कृते हि कुरुश्रेष्ठस्तप्यते दुश्चरं तपः
तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्वहम्
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो
प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः