बृहदश्वः-
अथ तां व्युषितो रात्रिं नलो राजा विशां पते
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्
ततोऽभिवादयामास प्रयतश्श्वशुरं नलः
तस्यानु दमयन्ती च ववन्दे पितरं शुभा
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः
नलेन सहितां तत्र दमयन्तीं पतिव्रताम्
अनुजग्राह महता सत्कारेण क्षितीश्वरः
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्
ततो बभूव नगरे सुमहान्हर्षनिःस्वनः
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम्
अशोभयच्च नगरीं पताकाध्वजमालिनीम्
सिक्तास्सुमृष्टपुष्पाढ्या राजमार्गास्तथाकृताः
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः
अर्चितानि च सर्वाणि दैवतानि च भारत
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्
दमयन्त्या समायुक्तं जहृषे च परन्तपः
तमानाय्य नलं राजा क्षमयामास पार्थिवः
स च तं क्षमयामास हेतुभिर्बुद्धिसत्तमः
स सत्कृतो महीपालो नैषधं विस्मिताननः
दिष्ट्या समेतो दारैस्त्वमित्युवाच नलं नृपः
कच्चित्तु नापराधं ते कृतवानस्मि नैषध
अज्ञातवासं वसतो मद्गृहे निषधाधिप
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कर्हिचित्
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि
नलः-
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव
पूर्वं ह्यपि सखा चाऽसि सम्बन्धी च नराधिप
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि
सर्वकामैस्सुविहितैः सुखमस्म्युषितस्त्वयि
न तथा स्वगृहे राजन्यथा तव गृहे सदा
इदं चैव हयज्ञानं त्वदीयं मम तिष्ठति
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव
बृहदश्वः-
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
ततो गृहाश्वहृदयं प्रीतो भागस्वरिर्नृप
सूतमन्यमुपादाय प्रययौ स्वां पुरीं प्रति
ऋतुपर्णे प्रतिगते नलो राजा विशां पते
नगरे कुण्डिने कालं नातिदीर्घमिवावसत्