बृहदश्वः-
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्
मातुस्सकाशं दुःखार्ता नलशङ्कासमुत्सुका
दमयन्ती-
परीक्षितो मे बहुशो बाहुको नलशङ्कया
रूपेण संशयस्त्वेकस्स्वयमिच्छामि वेदितुम्
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम्
बृहदश्वः-
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्
दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः
सा वै पित्राऽभ्यनुज्ञाता मात्रा च कुरुनन्दन
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः
तं तु दृष्ट्वा तथा युक्तं दमयन्ती नलं तथा
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी
ततः काषायवसना जटिला मलपङ्किनी
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्
दमयन्ती-
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक
सुप्तामुत्सृज्य विपिने गतो यः पुरुषस्स्त्रियम्
अनागसीं प्रियां भार्यां विपिने शोकमोहिताम्
अपहाय तु को गच्छेत्पुण्यश्लोकादृते नलात्
किमु तस्य मया बाल्यादपराद्धं महीपतेः
यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम्
साक्षाद्देवानपाहाय वृतो यस्स मया किल
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम्
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम्
भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम्
बृहदश्वः-
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु
अतीव कृष्णताराभ्यां रक्ताभ्यां सलिलं तु तत्
परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत्
बाहुकः-
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्
कलिना तु कृतं भीरु यच्च त्वामहमत्यजम्
त्वया तु धर्मकृच्छ्रे तु शापेनाभिहतः पुरा
वनस्थया दुःखितया शोचन्त्या मां विवाससम्
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः
त्वच्छापदग्धस्सततमग्नाविव समाहितः
मम च व्यवसायेन तपसा चैव निर्जितः
दुःखस्यान्तेन चानेन भवितव्यं हि शोभने
विमुच्य मां गतः पापस्ततोऽहमिह चागतः
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्
भैमी किलाद्य भर्तारं द्वितीयं वरयिष्यति
स्वैरवृत्त्या यथाकाममनुरूपमिवात्मनः
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः
बृहदश्वः-
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्
दमयन्ती-
न मामर्हसि कल्याण पापेन परिशङ्कितुम्
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः
वाक्यानि मम गाथाभिर्गायमाना दिशो दश
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथा हृते
उपायोऽयं मया दृष्टो नैषधानयने तव
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते
समर्थो योजनशतं गन्तुमश्वैर्नराधिप
तथाच मां महीपाल भजेतां चरणौ तव
यथा नासम्मतं किञ्चिन्मनसाऽपि चराम्यहम्
चन्द्रमास्सर्वभूतानामन्तश्चरति साक्षिवत्
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
तथा चरति तिग्मांशुः करेण भुवनं सदा
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
बृहदश्वः-
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम्
एवमुक्ते ततो वायुरन्तरिक्षादभाषत
वायुः-
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते
राजञ्शीलनिधिस्स्फीतो दमयन्त्या सुरक्षितः
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्
उपायो विहितश्चायं त्वदर्थमतुलोऽनया
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिति
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया
बृहदश्वः-
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह
देवदुन्दुभयो नेदुर्ववौ च पवनश्शुभः
तदद्भुततमं दृष्ट्वा नलो राजाऽथ भारत
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिन्दमः
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः
संस्मृत्य नागराजं तु ततो लेभे वपुस्स्वकम्
स्वरूपेण तु भर्तारं दृष्ट्वा भीमसुता ततः
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता
भैमीमपि नलो राजा भ्राजमानो यथापुरम्
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत
ततस्स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना
परिश्रान्तेव दुःखेन निशश्वासाऽऽयतेक्षणा
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्
सुचिरं पुरुषव्याघ्रं तस्थौ शोकपरिप्लुता
ततस्सर्वं यथावृत्तं दमयन्त्या नलस्य च
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम्
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्
वने विचरितं सर्वमूषतुर्मुदितौ नृप
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया
सर्वकामसमृद्धार्थो लब्धवान्परमां मुदम्
दमयन्त्यपि भर्तारमवाप्याऽऽप्यायिता भृशम्
अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा
सैवं समेत्य व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन