दमयन्ती-
गच्छ केशिनि जानीहि क एष रथसारथिः
उपविष्टो रथोपस्थे ह्रस्वो विकृतबाहुकः
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता
पृच्छेथाः पुरुषे ह्येनं याथातथ्यमनिन्दिते
अत्र मे महती शङ्का भवेदेष नलो नृपः
तथा हि मनसस्तुष्टिर्हृदयस्य च निर्वृतिः
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते
बृहदश्वः-
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्
दमयन्त्यपि कल्याणी प्रासादस्थाऽन्ववैक्षत
केशिनी-
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्
दमयन्त्या वचस्सौम्य निबोध भरतर्षभ
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति
बाहुकः-
श्रुतस्स्वयंवरो राज्ञा कौसलेन महात्मना
द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः
केशिनी-
अथ योऽसौ तृतीयो वस्स कुतः कस्य वा पुनः
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्
बाहुकः-
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः
स नले विद्रुते भद्रे भागस्वरिमुपस्थितः
अहमप्यन्नकुशलस्सूतत्वे चापि निष्ठितः
ऋतुपर्णेन सारथ्ये भोजने च वृतस्स्वयम्
केशिनी-
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः
कथं च त्वयि वै तेन कथितं स्यात्तु बाहुक
बाहुकः-
इहैव पुत्रौ निक्षिप्य नलस्य शुभकर्मणः
गतस्ततो यथाकामं नैष जानाति नैषधम्
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः
आत्मैव तु नलं वेद या च सा तदनन्तरा
न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित्
केशिनी-
योऽसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा
इमानि नारीवाक्यानि कथयानः पुनःपुनः
क्वनु त्वं कितवच्छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तत्राऽऽस्ते त्वत्प्रतीक्षिणी
दह्यमाना दिवा रात्रौ वस्त्रार्धेनाभिसंवृता
तस्या रुदन्त्यास्सततं तेन दुःखेन पार्थिव
प्रसादं कुरु मे वीर प्रतिवाक्यं प्रयच्छ च
तस्यास्तत्प्रियमाख्यातुं प्रब्रवीहि महामते
तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति
बृहदश्वः-
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने
स निगृह्य मनोदुःखं दह्यमानो महीपतिः
बाष्पसन्दिग्धया वाचा पुनरेवेदमब्रवीत्
बाहुकः-
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जितस्स्वर्गो न संशयः
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन
प्राणांश्चारित्रकवचान्धारयन्तीह सत्स्त्रियः
विषमस्थेन मूढेन परिभ्रष्टसुखेन च
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोश्शकुनैर्हृतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्
बृहदश्वः-
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः
न बाष्पमशकत्सोढुं प्ररुरोद च भारत
ततस्सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्
तत्सर्वं कथितं चैव विकारं चैव भामिनी
बृहदश्वः-
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्
दमयन्ती-
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि
तत्र सञ्चेष्टमानस्य संलक्षेथा विचेष्टितम्
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि
याचते न जलं देयं सक्तमत्वरमाणया
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय
यच्चान्यदपि पश्येथास्तच्चाऽऽख्येयं त्वया मम
बृहदश्वः-
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत्
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्
निमित्तं यत्तदादिष्टं बाहुके दिव्यमानुषम्
केशिनी-
दृढं शुच्यपचारोऽसौ न मया मानुषः क्वचित्
दृष्टपूर्वश्श्रुतो वाऽपि दमयन्ति तथाविधः
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित्
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्
सङ्कटेऽप्यस्य सुमहद्विवरं कुरुतेऽधिकम्
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः
प्रेषितं तत्र चाज्ञाय मांसं सुबहु पेशलम्
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः
तृणमुष्टिं समादाय आविद्ध्यैनं समादधत्
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः
एतान्यद्भुतरूपाणि दृष्ट्वाऽहं भृशविस्मिता
चेष्टितानि विशालाक्षि बाहुकस्य विशेषतः
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे
छन्देनैवोदकं तस्य भवत्यावर्जितं ध्रुवम्
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः
मृद्यमानानि पुष्पाणि पाणिभ्यां तेन भामिनि
भूय एव सुगन्धीनि हृषितानि भवन्ति च
बृहदश्वः-
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत्
दमयन्ती-
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्
महानसाच्छ्रितं मांसं समादायैहि भामिनि
बृहदश्वः-
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन
साऽशिता नलसिद्धस्य मांसस्य बहुशः पुरा
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता
वैक्लब्यं परमं गत्वा प्रक्षाल्य च मुखं ततः
मिथुनं प्रेषयामास केशिन्या सह भारत
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
नैषधो दर्शयित्वाऽथ विकारमसकृत्तदा
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्
बाहुकः-
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्
बहुशस्सम्पतन्तीं त्वां जनश्शङ्केत दोषतः
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते