बृहदश्वः-
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम्
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरीम्
नादयन्रथघोषेण सर्वाश्चाथ दिशो दश
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः
श्रुत्वा च समहृष्यन्त पुरेव नलसन्निधौ
दमयन्ती तु शुश्राव रथघोषं नलस्य वै
यथा मेघस्य नदतो गम्भीरं जलदागमे
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः
प्रासादस्थाश्च शिखिनश्शालास्थाश्चैव वारणाः
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः
तच्छ्रुत्वा रथनिर्घोषं वारणाश्शिखिनस्तथा
प्रणेदुरुन्मुखा राजन्मेघनादमवेक्ष्य वा
दमयन्ती-
यथैव रथनिर्घोषः पूरयन्निव मेदिनीम्
ममाऽऽह्लादयते चेतो नल एष महीपतिः
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि
असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम्
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम्
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्
यदि मां सिंहविक्रान्तो मत्तवारणवारणः
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम्
न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम्
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः
अहो नीचानुवर्ती च क्लीबवन्मम नैषधः
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्
बृहदश्वः-
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया
ततो मध्यमकक्षायां ददर्श रथमास्थितम्
ऋतुपर्णं महीपालं सहवार्ष्णेयं सबाहुकम्
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्
हयांस्तानवमुच्याथ स्थापयामासतू रथम्
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः
उपतस्थे महाराजं भीमं भीमपराक्रमम्
तं भीमः प्रतिजग्राह पूजया परया ततः
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं नाभ्यविन्दत
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन
नैव स्वयंवरकथां न च विप्रसमागमम्
ततोऽप्यगणयद्राजा मनसा कोसलाधिपः
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः
राजाऽपि च स्मयं भीमो मनसाऽभिव्यचिन्तयत्
अधिकं योजनशतं तस्याऽऽगमनकारणम्
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्
अल्पकार्यं विनिर्दिष्टं तस्याऽऽगमनकारणम्
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्
विश्राम्यतामिति तदा श्रान्तोऽसीति पुनःपुनः
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्
ऋतुपर्णे गते राजा वार्ष्णेयसहिते नृपे
बाहुको रथमादाय रथशालामुपागमत्
स मोचयित्वा तानश्वान् प्रतिपाल्य च शास्त्रतः
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्
दमयन्ती तु शोकार्ता दृष्ट्वा भागस्वरिं नृपम्
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम्
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः
नलस्येव महानासीन्न च पश्यामि नैषधम्
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता
तेनास्य रथनिर्घोषो नलस्येव महानभूत्
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा
तथाऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते
एवं च तर्कयित्वा तु दमयन्ती विशां पते
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप