बृहदश्वः-
स नदीः पर्वतांश्चैव वनानि च सरांसि च
अचिरेणातिचक्राम खेचरः खे चरन्निव
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः
उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः
ततस्स त्वरमाणस्तु पटे निपतिते तदा
ग्रहीष्यामीति तं राजन् नलमाह महामनाः
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्
वार्ष्णेयो यावदेतन्मे पटमानयतामिह
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव
योजनं समतिक्रान्तो न च शक्यस्त्वया पुनः
एवमुक्तो नलेनाथ तथा भागस्वरिर्नृपः
आससाद वने राजन्फलवन्तं विभीतकम्
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत
ऋतुपर्णः-
ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम्
सर्वस्सर्वं न जानाति सर्वज्ञो नास्ति कश्चन
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक
पतितानि च यान्यत्र तत्रैकमधिकं कृतम्
एकपत्राधिकं पत्रं फलमेकं च बाहुक
फलकोट्यथ पत्राणां द्वयोरपि च शाखयोः
बृहदश्वः-
प्रचिनुह्यस्य शाखे द्वे याश्चान्याः प्रतिशाखिकाः
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्
बाहुकः-
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन
अथ ते गणिते राजन्विजानाम्यपरोक्षताम्
प्रत्यक्षं ते महाराज गणयिष्ये विभीतकम्
अहं हि नाभिजानामि भवेदेवं नवेति वा
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्
बृहदश्वः-
तमब्रवीन्नृपस्सूतं नायं कालो विलम्बितुम्
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः
बाहुकः-
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः
बृहदश्वः-
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन
ऋतुपर्णः-
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे
बृहदश्वः-
अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं विभीतकम्
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम
अकाम इव तं राजा गणयस्वेत्युवाच ह
सोऽवतीर्य रथात्तूर्णं गणयामास वै द्रुतम्
ततस्स विस्मयाविष्टो राजानमिदमब्रवीत्
बाहुकः-
गणयित्वा यथोक्तानि तावन्त्येव फलानि तु
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप
बृहदश्वः-
ऋतुपर्णः-
तमुवाच ततो राजा त्वरितो गमने नृप
विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम्
बृहदश्वः-
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्
हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः
ऋतुपर्णः-
यथोक्तं वै गृहाणेदमक्षाणां हृदयं परम्
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक
बृहदश्वः-
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः
कर्कोटकविषं तीव्रं मुखात्स तु समुद्वमन्
कलेस्ततस्तदार्तस्य शापाग्निस्स विनिःसृतः
स तेन कर्शितो राजा दीर्घकालमनात्मवान्
ततो विषाद्विमुक्तात्मा स्वं रूपमकरोत्कलिः
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः
तमुवाच ततो भीतो वेपमानः कृताञ्जलिः
कलिः-
कोपं संयच्छ नृपते प्रतिदास्यामि ते वरम्
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः
अवसं त्वयि राजेन्द्र सुदुःखमपराजित
विषेण नागराजस्य दह्यमानो दिवानिशम्
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति
न चैषां मानसं किञ्चिच्छारीरं वाचिकं तथा
भविष्यति नृणां राजन्कीर्तयिष्यन्ति ये नलम्
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे
बृहदश्वः-
एवमुक्तो नलो राजा न्ययच्छत्कोधमात्मनः
ततो भीतः कलिः क्षिप्रं प्रविवेश विभीतकम्
कलिस्तत्रैष सोऽदृश्यः कथयन्नैषधेन वै
ततो गतज्वरो राजा नैषधः परवीरहा
सम्प्रनष्टे कलौ राजा सङ्ख्यायाथ फलान्युत
मुदा परमया युक्तस्तेजसाऽथ परेण च
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः
बिभीतकश्चाप्रशस्तस्संवृत्तः कलिसंश्रयात्
हयोत्तमानुत्पततो द्विजानिव पुनःपुनः
नलस्सञ्चोदयामास प्रहृष्टेनान्तरात्मना
विदर्भाभिमुखो राजा प्रययौ स महायशाः
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान्
ततो गतज्वरो राजा नलो वै पृथिवीपतिः
विमुक्तः कलिना राजन्रूपमात्रवियोजितः