बृहदश्वः-
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्
पर्णादः-
नैषधं मृगयानेन दमयन्ति दिवानिशम्
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः
श्रावितश्च मया वाक्यं त्वदीयं स महाजने
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत्
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः
दीर्घयाने सुकुशलो मृष्टकर्ता च भोजने
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत
बाहुकः-
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जितस्स्वर्गो न संशयः
रहिता भर्तृभिस्साध्व्यो न क्रुद्ध्यन्ति कदाचन
प्राणांश्चारित्रकवचान्धारयन्तीह सत्स्त्रियः
विषमस्थेन मूढेन परिभ्रष्टसुखेन च
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोश्शकुनैर्हृतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति
पर्णादः-
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय
बृहदश्वः-
एवं श्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशां पते
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत
दमयन्ती-
अयमर्थो न संवेद्यो भीमे मातः कदाचन
त्वत्सन्निधौ समादेक्ष्ये सुदेवं द्विजसत्तमम्
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्
तथा त्वया च कर्तव्यं मम चेदिच्छसि प्रियम्
यथा चाहं समानीता सुदेवेनेह बान्धवात्
तेनैव मङ्गलेन श्वस्सुदेवो यातु मा चिरम्
समानेतुं नलं मातरयोध्यां नगरीं प्रति
ऋतुपर्णस्य भवने निवसन्तमरिन्दमम्
बृहदश्वः-
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्
अर्चयामास वैदर्भी धनेनातीव भामिनी
उवाच चैनं महता सम्पूज्य द्रविणेन वै
दमयन्ती-
नले चेहागते विप्र भूयो दास्यामि ते वसु
त्वया हि मे बहुकृतं यथा नान्यः करिष्यति
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम
बृहदश्वः-
एवमुक्तोऽर्चयित्वा तामाशीर्वादैस्सुमङ्गलैः
गृहानथ ययौ चापि कृतार्थस्सुमहातपाः
ततस्सुदेवमानाय्य दमयन्ती युधिष्ठिर
अब्रवीत्सन्निधौ मातुर्दुःखशोकसमन्विता
दमयन्ती-
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
तथा च गणितः कालश्श्वोभूते स भविष्यति
यदि सम्भाविनीयं ते गच्छ शीघ्रमरिन्दम
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति
न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा
बृहदश्वः-
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत्
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा
श्रुत्वा वचस्सुदेवस्य ऋतुपर्णो जनाधिपः
सान्त्वयञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत
ऋतुपर्णः-
विदर्भान्यातुमिच्छामि दमयन्त्यास्स्वयंवरम्
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक
बृहदश्वः-
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महायशाः
नलः-
दमयन्ती भवेदेतत् कुर्याद्दुःखेन मोहिता
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान्
नृशंसं सा तु वैदर्भी कर्तुकामा तपस्विनी
मया क्षुद्रेण निकृता कृपणा पापेनाकृतबुद्धिना
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः
स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा
मम दोषेण संविग्ना नैराश्यात्तनुमध्यमा
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः
यदत्र पथ्यं तथ्यं च गत्वा वेत्स्यामि निश्चयम्
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्
बृहदश्वः-
इति निश्चित्य मनसा बाहुको दीनमानसः
कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम्
बाहुकः-
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप
बृहदश्वः-
ततः परीक्षामश्वानां चक्रे राज्ञस्स बाहुकः
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्
शुभान्दशभिरावर्तैस्सिन्धुजान्वातरंहसः
दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि
दृष्ट्वा तानब्रवीद्राजा किञ्चित् कोपसमन्वितः
ऋतुपर्णः-
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम्
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम्
महान्तमपि चाध्वानं गन्ताऽहं कथमीदृशैः
बाहुकः-
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः
अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते
ऋतुपर्णः-
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय
बृहदश्वः-
ततस्सदश्वांश्चतुरः कुलशीलसमन्वितान्
योजयामास कुशलो जवयुक्तान्रथे नलः
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः
ततो नरवरश्श्रीमान्नलो राजा विशां पते
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्
ते चोद्यमाना बहुधा बाहुकेन हयोत्तमाः
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः
अयोध्याधिपतिश्श्रीमान्विस्मयं परमं ययौ
रथघोषं च तं श्रुत्वा हयानां ग्रहणं च तत्
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्
वार्ष्णेयः-
किन्नु स्यान्मातलिरयं देवराजस्य सारथिः
तथा हि लक्षणं सम्यग्बाहुके दृश्यते महत्
शालिहोत्रोऽपि किन्नु स्याद्धयानां कुलतत्त्ववित्
मानुषं परमं प्राप्तो वपुः परमशोभनम्
उताऽऽहोस्विद्भवेद्राजा नलः परपुरञ्जयः
सोयं नृपतिरायात इत्येवं समचिन्तयत्
अथवाऽयं नलाद्वेद विद्यां तामेव बाहुकः
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च
अपि चेदं वचस्तुल्यमस्य मन्ये नलस्य च
नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्
दैवेन विधिना युक्ताश्शास्त्रोक्तैश्च निरूपिताः
भवेन्न मतिभेदो मे गात्रवैरूप्यकं प्रति
प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः
बृहदश्वः-
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्
हृदयेन महाराज पुण्यश्लोकस्य सारथिः
ऋतुपर्णस्तु दृष्ट्वैव बाहुकस्य हयज्ञताम्
चिन्तयन्मुमुदे वीरस्सहवार्ष्णेयसारथिः
बलं शौर्यं तथोत्साहं हयसङ्ग्रहणं च तत्
परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप सः