बृहदश्वः-
हृतराज्ये नले भीमस्सभार्येऽदर्शनं गते
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया
सन्दिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्
भीमः-
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारांश्च दास्यामि नद्यास्तीरे द्विजोत्तमाः
हिरण्यं च सुवर्णं च दासीदासं तथैव च
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्
बृहदश्वः-
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणास्सर्वतो दिशम्
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम्
पुण्याहवाचने राज्ञस्सुनन्दासहितां स्थिताम्
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्
पिनद्धां धूमजालेन प्रभामिव विभावसोः
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास भैमीति कारणैरुपपादयन्
सुदेवः-
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्
कुर्वन्तीं प्रभया तत्र सर्वा वितिमिरा दिशः
चारुपद्मविशालाक्षीं मन्मथस्येव तां रतीम्
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव
विदर्भसरसस्तस्माद्दैवदोषादिवोद्यताम्
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम्
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम्
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया
भर्ता नाम परं नार्या भूषणं भूषणैर्विना
एषा विरहिता तेन शोभमाना न शोभते
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः
धारयत्यात्मनो देहं न शोकेनावसीदति
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः
कदा नु खलु दुःखस्य पारं गच्छति वै शुभा
भर्तुस्समागमात्साध्वी रोहिणी शशिनो यथा
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्
तुल्यशीलवयोरूपां तुल्याभिजनसंयुताम्
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा
युक्तं त्वद्याप्रमेयस्य वीर्यसत्त्ववतो मया
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्
बृहदश्वः-
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
उपगम्य ततो भैमीं सुदेवो वाक्यमब्रवीत्
सुदेवः-
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितस्सखा
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः
कुशली ते पिता राजा जननी भ्रातृभिश्च ते
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते
त्वत्कृते बन्धुवर्गाश्च गतसत्वा इवासते
बृहदश्वः-
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदस्स्वकान्
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्
रुदन्तीं तां तथा दृष्ट्वा सुनन्दा शोककर्शिता
सुदेवेन सहैकान्ते कथयन्तीं च भारत
जनित्रीं प्रेषयामास सैरन्ध्री रुदते भृशम्
ब्राह्मणेन सहाऽऽगम्य तां विद्धि यदि मन्यसे
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्
ततस्सुदेवमानाय्य राजमाता विशां पते
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना
त्वया च विदिता विप्र कथमेवङ्गता सती
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः
तत्त्वेन हि ममाऽऽचक्ष्व पृच्छन्त्या देवरूपिणीम्
एवमुक्तस्ततो राजन्सुदेवो द्विजसत्तमः
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्
सुदेवः-
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता
राजा तु नैषधश्श्रीमान् सार्वभौमश्च वै नलः
वीरसेनसुतस्सोऽपि यदि ते श्रोत्रमागतः
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य विश्रुता
स वै द्यूते जितो भ्रात्रा हृतराज्यो महामनाः
दमयन्त्या च सहितो गतो न ज्ञायते नृपः
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्
सेयमासादिता बाला तव देवि निवेशने
तस्या रूपेण सदृशी मानुषी न हि विद्यते
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः
श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया
मलेन संवृतो ह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः
प्रतिपत्कलुषा चेन्दोर्लेखेव न विराजते
न चास्या दृश्यते रूपं वपुर्मलसमाचितम्
असंस्कृतमपि व्यक्तं भवत्यम्यास्स्वभावतः
अनेन वपुषा बाला पिप्लुनाऽनेन चैव हि
लक्षितेयं मया देवी निहितोऽग्निरिवोष्मणा
बृहदश्वः-
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशाम्पते
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत
दमयन्त्यास्तथा व्यभ्रे नभसीव दिवाकरः
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्
राजमाता-
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता
अहं तु तव माता च राजन्यस्य महात्मनः
सुते दशार्णाधिपतेस्सुदाम्नश्चारुलोचने
भीमस्य राज्ञस्सा दत्ता वीरबाहोरहं पुनः
त्वं तु जाता मया दृष्टा दशार्णेषु गृहे पितुः
यथैव ते पितुर्गेहं तथेदमपि भामिनि
यथैव च ममैश्वर्यं दमयन्ति तथा तव
बृहदश्वः-
सम्प्रहृष्टेन मनसा दमयन्ती विशां पते
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्
दमयन्ती-
अज्ञायमानाऽपि सती सुखमध्युषितेह वै
सर्वकामैस्सुविहिता रक्ष्यमाणा सदा त्वया
सुखात्सुखतरो वासो भविष्यति न संशयः
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि
दारकौ चैव मे नीतौ वसतस्तत्र बालकौ
पित्रा विहीनौ शोकार्तौ मया चापि कथं नु तौ
यदि वापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि
विदर्भान्यातुमिच्छामि यानं मे शीघ्रमादिश
बृहदश्वः-
बाढमित्येवमुक्त्वा तां हृष्टा मातृष्वसा नृप
गुप्तां बलेन महता पुत्रस्यानुमते ततः
प्रास्थापयद्राजमाता श्रीमता नरवाहिना
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्
ततस्सा न चिरादेव विदर्भानगमच्छुभा
तां तु बन्धुजनस्सर्वो वैदर्भीं प्रत्यपूजयत्
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ
मातरं पितरं चोभौ सर्वं चैव सखीजनम्
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी
विधिनाऽनेन कल्याणी दमयन्ती विशां पते
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्
दमयन्ती-
मां चेदिच्छसि जीवन्तीं मातस्सत्यं ब्रवीमि ते
नलस्यान्वेषणे यत्नः क्रियतामिति साम्प्रतम्
बृहदश्वः-
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता
बाष्पेणापिहिता राजन् नोत्तरं किञ्चिदब्रवीत्
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा
हाहाभूतमतीवाऽऽसीद्भृशं तत्र रुरोद ह
ततो भीमं महाराजं भार्या वचनामब्रवीत्
भार्या-
दमयन्ती तव सुता भर्तारमनुशोचति
अपकृष्य च लज्जां मां स्वयमुक्तवती नृप
प्रयतन्तां तव प्रेष्याः पुण्यश्लोकस्य दर्शने
बृहदश्वः-
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः
प्रास्थापयद्दिशस्सर्वा यतध्वं नलदर्शने
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तु ते
दमयन्तीमथापृच्छ्य प्रस्थितास्स्मेत्यथाब्रुवन्
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः
ब्रूत वै जनसंसत्सु तत्र तत्र पुनःपुनः
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षणे
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता
तस्या रुदन्त्यास्सततं तेन शोकेन पार्थिव
प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च
एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि
वायुना धूयमानो हि वनं दहति पावकः
भर्तव्या रक्षणीया च पत्नी पत्या च सर्वदा
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च वै सदा
संवृत्तो निरनुक्रोशश्शङ्के मद्भाग्यसङ्क्षयात्
स कुरु त्वं महेष्वास दयां मयि नरोत्तम
आनृशंस्यं परो धर्मस्त्वत्त एव श्रुतो मया
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन
स नरस्सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते
यच्च वो वचनं श्रुत्वा बूयात्प्रतिवचो नरः
तदादाय वचः क्षिप्रं ममाऽऽवेद्यं द्विजोत्तमाः
यथा च वो न जानीयाच्चरतो भीमशासनात्
पुनरागमनं चेह तथा कार्यमतन्द्रितैः
यदि वाऽसौ समृद्धस्स्याद्यदि वाऽप्यधनो भवेत्
यदिऽवाप्यर्थकामस्स्याज्ज्ञेयमस्य चिकीर्षितम्
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणास्सर्वतो दिशम्
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाऽऽश्रमान्
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते
श्रावयाञ्चक्रिरे सर्वे दमयन्त्या यथेरितम्