बृहदश्वः
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा
जगाम तेन सार्थेन भर्तृदर्शनलालसा
अथ काले बहुतिथे वने महति दारुणे
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम्
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्
बहुमूलफलोपेतं नानापक्षिगणैर्वृतम्
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम्
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः
सम्मते सार्थवाहस्य विविशुर्वनमुत्तमम्
उवास सार्थस्सुमहान्निशामासाद्य पद्मिनीम्
अथार्धरात्रसमये निःशब्दे तिमिरे तदा
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम्
मार्गं संरुद्ध्य संसुप्तं पद्मिन्यास्सार्थमुत्तमम्
सुप्तं ममर्द सहसा वेष्टमानं महीतले
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः
वनगुल्मांश्च धावन्तो निद्रया महतो भयात्
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां नरा हताः
गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम्
भयार्तं धावमानं च परस्परहतं तथा
घोरं नादं विमुञ्चन्तो निपेतुर्धरणीतले
वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च
तथा विनिहतं सर्वं समृद्धं सार्थमण्डलम्
अथापरेद्युस्सम्प्राप्ते हतशिष्टा जनास्तदा
बहुगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्
भ्रातरं पितरं पुत्रं सखायं च जनाधिप
हन्यमाने तथा सार्थे दमयन्ती शुचिस्मिता
ब्राह्मणैस्सहिता तत्र वने तु न विनाशिता
अशोचत्तत्र वैदर्भी किन्नु मे दुष्कतं कृतम्
सोऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः
हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु
प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम्
नानाप्तकालो म्रियते श्रुतं वृद्धानुशासनम्
या नाहमद्य मृदिता हस्तियूथेन दुःखिता
नाद्य दैवकृतं किञ्चिन्नराणामिह विद्यते
न च मे बालभावेऽपि किञ्चित्पापकृतं कृतम्
कर्मणा मनसा वाचा यदिदं दुःखमागतम्
मन्ये स्वयंवरकृते लोकपालास्समागताः
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्
बृहदश्वः
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना
हतशेषैस्सह तदा ब्राह्मणैर्वेदपारगैः
अगच्छद्राजशार्दूल दुःखशोकसमन्विता
गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत्
सायाह्ने चेदिराजस्य सुबाहोस्सत्यवादिनः
सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम्
वस्त्रार्धकसुसंवीता प्रविवेश पुरोत्तमम्
तां विवर्णां कृशां दीनां मलिनाम्बरमूर्धजाम्
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा
अनुजग्मुस्ततो बाला राजपुत्र्याः कुतूहलात्
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम्
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत
राजमाता
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः
भासि विद्युदिवाभ्रेषु शंस मे काऽसि कस्य वा
न च ते मानुषं रूपं भूषणैरपि वर्जितम्
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे
बृहदश्वः
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्
मानुषा मां विजानीहि भर्तारं मामनुव्रताम्
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम्
फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम्
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः
भर्तारं पितरं वीरं छायेवापगा सदा
स केनचिदमेयात्मा कारणेन वरानने
दुःखितस्सर्वमुत्सृज्य प्रविवेश वनं महत्
ततस्तं दुःखितं दृष्ट्वा प्रविशन्तं च काननम्
आश्वासयन्ती भर्तारमहमन्वगमं तदा
स कदाचित्पुनर्वीरः कस्मिंश्चित्काननान्तरे
क्षुत्परीतश्च विमना वासश्चैकं व्यसर्जयत्
तमेकवसना नग्नमुन्मत्तगतचेतसम्
अनुव्रजन्ती बहुला न स्वपामि निशास्सदा
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसीम्
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपम्
न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम्
बृहदश्वः
इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता
तामश्रुपरिपूर्णाक्षीं विलपन्तीमनाथवत्
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम्
राजमाता
वस त्वमिह कल्याणि प्रीतिर्मे त्वयि वर्तते
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः
इहैव वसती भद्रे भर्तारमुपलप्स्यसे
बृहदश्वः
राजमातुर्वचश्श्रुत्वा दमयन्ती वचोऽब्रवीत्
दमयन्ती
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्
न चाहं पुरुषानन्यान्प्रभाषेयं कदाचन
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्
यद्येवमिह वस्तव्यं वत्स्याम्यहमसंशयम्
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्
बृहदश्वः
राजमाता
इत्युक्वा दमयन्त्या तु राजमातेदमब्रवीत्
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्
बृहदश्वः
एवमुक्त्वा ततो भैमीं राजमाता विशां पते
उवाचेदं दुहितरं सुनन्दां नाम भारत
राजमाता
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्
एतया सह मोदस्व निरुद्विग्रमनास्स्वयम्
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया
चिन्तयन्ती नलं वीरमनिशं वामलोचना
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्
ततः परमसंहृष्टा सुनन्दा सा मनस्विनी
दमयन्तीमुपादाय सखीभिः परिवारिता
सा तत्र पूज्यमाना वै दमयन्त्यावसत्सुखम्
सर्वकामैस्समुदिता निरुद्विग्ना ह्यनामया