बृहदश्वः
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्
सिंहव्याघ्ररुरुद्वीपिवराहर्क्षमृगायुतम्
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्
सालवेणुधवाश्वत्थतिन्दुकेन्दुककिंशुकैः
अर्जुनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्
काश्मर्यामलकीप्लक्षकदम्बोदुम्बरावृतम्
बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम्
प्रियालतालखर्जूरहरीतकिविभीतकैः
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्
सिंहर्क्षव्याघ्रसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः
नदीस्सरांसि वापीश्च वन्यानपि मृगद्विजान्
सुबहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तटाकानि गिरिकूटानि सर्वशः
सरित्सरांसि च तथा ददर्शाद्भुतदर्शना
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
महिषान्वराहान्गोमायूनृक्षपन्नगवानरान्
तेजसा यशसा लक्ष्म्या कान्त्या च परया युता
वैदर्भी विचचारैका नलमन्वेषती तदा
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता
विदर्भतनया राजन्विललाप सुदुःस्विता
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता
दमयन्ती
सिंहोरस्क महाबाहो निषधानां जनाधिप
क्वनु राजन्गतोऽसि त्वं त्यक्त्वा मां विजने वने
अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते
कर्तुमर्हसि कल्याण तत्सर्वं पार्थिवर्षभ
यच्चोक्तं विहगैर्हंसैस्समीपे तव भूमिप
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि
एकतश्चत्वारो वेदास्साङ्गोपाङ्गास्सविस्तराः
स्वधीतास्ते नरश्रेष्ठ सत्यमेकं किलैकतः
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः
हा वीर ननु नामाहमिष्टा किल तवानघ
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे
भक्षयत्येष मे रौद्रो व्यात्तास्यो दारुणाकृतिः
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा
तामृतां कुरु कल्याण पुरोक्तां भारतीं नल
उन्मत्तवद्विलपतीं भार्यामिष्टां नराधिप
ईप्सितामीप्सितेनाथ किं मां न प्रतिनन्दसे
कृशां दीनां विवर्णां च मलिनां वसुधाधिप
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
न मानयसि मां नाथ रुदन्तीमरिकर्शन
महाराज महारण्ये मामिहैकाकिनीं सतीम्
त्वत्पत्नीमभिभाषन्तीं किं मां न प्रतिभाषसे
कुलशीलोपसम्पन्नां चारुसर्वाङ्गशोभनाम्
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते
शयानमुपविष्टं वा स्थितं वा मनुजाधिप
प्रस्थितं वा नरश्रेष्ठ मम शोकविनाशन
किं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता
कच्चिद्दृष्टस्त्वयाऽरण्ये सङ्गम्येह नलो नृपः
को नु मे कथयेदद्य वनेऽस्मिन्निष्ठितं नृपम्
महाबलं महात्मानं परव्यूहविनाशनम्
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः
शार्दूलोऽभिमुखं प्रैति पृच्छाम्येनमशङ्किता
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः
विदर्भराजतनयां दमयन्तीति विद्धि माम्
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः
पतिमन्वेषणीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः
सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः
अथवाऽरण्यनृपते नलं यदि न पश्यसि
मां भक्षयित्वा शार्दूल विशोकां कुरु दुःखिताम्
श्रुत्वाऽरण्ये विलपितां मामेव मृगराट् स्वयम्
यात्येतां मृष्टसलिलामापगां सागरोपमाम्
इमं शिलोच्चयं पृण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
विराजद्भिर्दिविस्पृग्भिर्नैकवर्णैर्मनोहरैः
नानाधातुसमाकीर्णं विविधोपलशोभितम्
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम्
सिंहशार्दूलमातङ्गवराहर्क्षसमाकुलम्
पतत्त्रिभिर्बहुविधैस्समन्तादनुनादितम्
किंशुकाशोकबकुलैः पुन्नागैरुपशोभितम्
सरिद्भिस्सविहङ्गाभिश्शिखरैश्चापि शोभितम्
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम्
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम्
राजा विदर्भाधिपतिः पिता मम महारथः
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
ब्रह्मण्यस्साधुवृत्तश्च सत्यवागनसूयकः
शीलवान् सत्यवाञ्शूरः पृथुश्रीर्धर्मविश्रुतः
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
तस्य मां विद्धि तनयां भगवन् समुपस्थिताम्
निषधेषु महाराजश्श्वशुरो मे नृपोत्तमः
गृहीतनामा विख्यातो वीरसेन इति स्म ह
तस्य राज्ञस्सुतो वीरश्श्रीमान्सत्यपराक्रमः
क्रमप्राप्तं तु यो राज्यं पितुस्समुपशास्ति हि
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित्
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्
त्यक्तांश्रिया भर्तृहीनामनाथां व्यसनान्विताम्
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम्
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः
गजेन्द्रविक्रमो धीमान्दीर्घबाहुररिन्दमः
विक्रान्तस्सत्यवान्धीरो भर्ता मम महायशाः
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुखिताम्
वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते
यद्यस्यस्मिन्वै वने राजन्दर्शयाऽऽत्मानमात्मना
कदा नु स्निग्धगम्भीरां जीमूतस्वनसन्निभाम्
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीम्
बृहदश्वः
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना
तापसारण्यमतुलं दिव्यकाननदर्शितम्
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
नियतैस्संयताहारैर्दमशौचसमन्वितैः
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
जितेन्द्रियैर्महाभागैस्स्वर्गमार्गदिदृक्षुभिः
वल्कलाजिनसंवीतैर्मुनिभिस्संयतेन्द्रियैः
तापसाऽध्युषितं रम्यं ददर्शाऽऽश्रममण्डलम्
सा च दृष्ट्वाऽऽश्रमपदं नानामृगनिषेवितम्
शाखामृगगणैश्चैव तापसैश्च समन्वितम्
सुभ्रूस्सुकेशी सुश्रोणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी
सा विवेशाऽऽश्रमपदं वीरसेनसुतप्रिया
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी
तापसैस्समुपेतं च सा दृष्ट्वैव समाश्वसत्
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैस्तथा
पूजां चक्रे यथान्यायं ऋषीणां सा मनस्विनीः
ततस्ते पूजिता विप्राः प्रयतेन्द्रियमानसाः
आस्यतामित्यथोचुस्ते ब्रूहि किं करवाम ते
तानुवाच महाभागा कच्चिद्भगवतामिह
तपस्स्वग्निषु धर्मे च सर्वेषु मृगपक्षिषु
अपि स्वाध्याययोगेषु धर्मयोगेषु वा पुनः
कुशलं वः प्रियतपास्स्वधर्माचरणेषु च
तैश्चोक्तं कुशलं भद्रे सर्वत्रेति तपस्विभिः
ब्रूहि सर्वानवद्याङ्गि का त्वं किञ्च चिकीर्षसि
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह
विस्मयो नस्समुत्पन्नस्समाश्वसिहि मा शुचः
अस्यारण्यस्य महती देवता वा महीभृतः
अस्यास्तु नद्याः कल्याणि वद सत्यमनिन्दिते
साऽब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता
न चाप्यस्य गिरेर्विप्रा न नद्या देवताऽप्यहम्
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः
दमयन्ती
विदर्भेषु महीपालो भीमो नाम महाद्युतिः
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः
निषधाधिपतिश्श्रीमान्नलो नाम महायशाः
वीरस्सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः
देवताभ्यर्चनपरो द्विजातिजनवत्सलः
गोप्ता निषधवंशस्य महाभागो महाद्युतिः
सत्यवान्धर्मवित्प्राज्ञस्सत्यसन्धोऽरिमर्दनः
ब्रह्मण्यो दैवतपरश्श्रीमान्परपुरञ्जयः
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः
सपत्नानां मृधे हन्ता रविसोमसमप्रभः
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधिपः
आहूय पृथिवीपालस्सत्यधर्मपरायणः
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च
विवासितश्च नगराद्वनवासमुपेयिवान्
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्याता भर्तुर्दर्शनलालसा
सा वनानि गिरींश्चैव सरांसि सरितस्तथा
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः
अन्वेषती सा भर्तारं नलं रणविशारदम्
महात्मानं कृतास्त्रं च विचरामीह दुःखिता
कच्चिद्भगवतां पुण्यं तपोवनमिदं महत्
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः
यत्कृतेऽहमिदं दुर्गं प्रपन्ना भृशदारुणम्
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात्
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता
बृहदश्वः
तथा विलपतीमेकामरण्ये भीमनन्दिनीम्
दमयन्तीमथोचुस्ते तापसास्सत्यवादिनः
तापसाः
उदर्कस्तव कल्याणि कल्याणो भविता शुभे
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्
निषधानामधिपतिं नलं रिपुनिघातिनम्
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्
विमुक्तं सर्वपापेभ्यस्सर्वरत्नविभूषितम्
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम्
द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम्
बृहदश्वः
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा
सा दृष्ट्वा महदाश्चर्यं विस्मिता त्वभवत्ततः
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा
चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम्
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहागतः
क्व नु ते तापसास्सर्वे क्व तदाश्रममण्डलम्
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः
इत्येतन्नरशार्दूल विस्मिता कमलेक्षणा
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशोककृशा दीना विवर्णपरुषाऽभवत्
सा गता चापरां भूमिं बाष्पसन्दिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने
पल्लवापीडितं हृद्यं विहङ्गैरपि नादितम्
दमयन्ती
अहो बतायमगमश्श्रीमानस्मिन्वनान्तरे
आपीडैर्बहुभिर्भाति श्रीमान्निषधराडिव
अशोक शोकापनुद शोकोपहतचेतसम्
त्वन्नामानं कुरु क्षिप्रं प्रियसन्दर्शनाद्धि माम्
अशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्
निषधानामधिपतिं दृष्टवानसि मे प्रियम्
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
व्यसनेनार्दितं वीरमरण्यमिदमागतम्
यथा विशोका गच्छेयमशोकवर तत्कुरु
सत्यनामा भवाशोक मम शोकविनाशनात्
बृहदश्वः
एवं साऽशोकवृत्तं तमार्ता त्रिरुपगम्य सा
जगाम दारुणं देशं वैदर्भी कमलेक्षणा
सा ददर्श नगान्नैकान्सरांसि सरितस्तथा
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्
ददर्श सा भीमसुता पतिमन्वेषती शुभा
सा गत्वा दूरमध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम्
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्
सुशीततोयां विस्तीर्णां ह्लादिनीं पादपैर्वृताम्
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रवाकैश्च शोभिताम्
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम्
सा दृष्ट्वैव महासार्थं दमयन्ती यशस्विनी
उपसृत्य वरारोहा जनमध्यं विवेश ह
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे
कुर्वन्त्यस्यां दयां केचित्पप्रच्छुरपि भारत
केचित्
काऽसि कस्यासि कल्याणि किं वा मृगयसे वने
त्वां दृष्ट्वा व्यथिताश्चैते नरास्सार्थनिवासिनः
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः
यक्षी वा राक्षसी वा त्वमुताहोऽसि सुराङ्गना
सर्वथा कुरु नस्स्वस्ति रक्ष चास्माननिन्दिते
यथाऽयं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्
बृहदश्वः
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
प्रत्युवाच ततस्साध्वी भर्तृशोकनिपीडिता
दमयन्ती
सार्थवाहश्च सार्थश्च जना ये चात्र केचन
युवस्थविरबालाश्च सार्थस्यास्य पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्
विदर्भराण्मम पिता भर्ता राजा च नैषधः
नलो नाम महाभागस्तं मार्गाम्यपराजितम्
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
नलं पुरुषशार्दूलममित्रगणसूदनम्
बृहदश्वः
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
सार्थवाहश्शुचिर्नाम दमयन्तीं नराधिप
सार्थवाहः
अहं सार्थस्य नेता वै सार्थवाहश्शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि
गोमायुकुञ्जरद्वीपिमहिषर्क्षनिषेवितम्
पश्याम्यस्मिन्वने कष्टे ह्यमनुष्यनिषेविते
यथा वयं तं पश्यामो नलं पार्थिवमत्र वै
तथा वै यक्षराजस्स मणिभद्रः प्रसीदतु
बृहदश्वः
दमयन्ती
साऽब्रवीद्वणिजस्सर्वान्सार्थवाहं च तं ततः
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हथ
सार्थवाहः
सार्थोऽयं चेदिराजस्य सुबाहोस्सत्यदर्शिनः
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे