बृहदश्वः
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
अबुध्यत वरारोहा सन्त्रस्ता विजने वने
अपश्यमाना भर्तारं शोकदुःखसमन्विता
प्राक्रोशदुच्चैस्सन्त्रस्ता महाराजेति नैषधम्
दमयन्ती
हा नाथ हा महाराज हा स्वामिन्किञ्जहासि माम्
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने
ननु नाम महारज धर्मज्ञ इति विश्रुतः
कथं तथाविधस्त्वं हि सुप्तामुत्सृज्य मां गतः
कथमुत्सृज्य गन्ताऽसि वश्यां भार्यामनुव्रताम्
विशेषतो नापकृतः परेणापकृते सति
शक्ष्यसे न गिरस्सत्याः कर्तुं मयि नरेश्वर
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ
भीताऽहमस्मि दुर्धर्ष दर्शयाऽऽत्मानमीश्वर
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे
नृशंसां बत राजेन्द्र यन्मामेवङ्गतामिह
विलपन्तीं समासाद्य नाश्वासयसि पार्थिव
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन
कथं नु भवितास्येक इति त्वां नृप शोचये
कथं नु राजंस्तृषितः क्षुधितश्श्रमकर्शितः
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि
बृहदश्वः
ततस्सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
इतश्चेतश्च रुदती पर्यधावत दुःखिता
मुहुरुत्पतते बाला मुहुः पतति विह्वला
मुहुरालीयते बाला मुहुः क्रोशति रोदिति
साऽतीव शोकसन्तप्ता मुहुर्निश्श्वस्य विह्वला
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता
दमयन्ती
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्
अपापचेतसं पापो य एवं कृतवान्नलम्
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्
बृहदश्वः
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
अन्वेषति स्म भर्तारं वने श्वापदसेविते
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः
हाहा महाराज नल इतश्चेतश्च धावति
संशुष्यमाणामत्यर्थं कुररीमिव वाश्यतीम्
करुणं बहु शोचन्तीं विलपन्तीं पुनःपुनः
सहसैवानवद्याङ्गीमभ्याशे परिवर्तिनीम्
जग्राहाजगरो ग्राहो महाकायः क्षुधाऽन्वितः
सा गृह्यमाणा ग्राहेण शोकेन च पराजिता
नात्मानं शोचति तथा यथा शोचति नैषधम्
दमयन्ती
हा नाथ मामिह वने ग्रस्यमानामनागसीम्
ग्राहेणानेन विपिने किमर्थं नाभिधावसि
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
कश्श्रमं राजशार्दूल नाशयिष्यति तेऽनघ
बृहदश्वः
तामकस्मान्मृगव्याधो विचरन्गहने वने
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
त्वरमाणो मृगव्याधस्सञ्चरन्गहने वने
समतिक्रम्य वेगेन सत्वरस्स वनेचरः
मुखतः पाटयामास शस्त्रेण निशितेन च
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः
मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन च
समाश्वास्य कृताहारामथ पप्रच्छ भारत
व्याधः
कस्य त्वं मृगशाबाक्षि कथं चास्याऽऽगता वनम्
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि
बृहदश्वः
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान्
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी
दमयन्ती च तं दुष्टं विज्ञायाथ पतिव्रता
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना
स तु पापमतिः क्षुद्रः प्रधर्षयितुमारभत्
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
अतीतवाक्पथे काले शशापैनं रुषा किल
दमयन्ती
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः
बृहदश्वः
उक्तमात्रे तु तया साध्व्या स मृगजीवनः
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः