बृहदश्वः
दमयन्ती तु तं दृष्ट्वा पुण्यश्लोकं नराधिपम्
उन्मत्तवदनुन्मत्ता दैवेन गतचेतसम्
भयशोकसमाविष्टा राजन्भीमसुता ततः
चिन्तयामास तत्कार्यं सुमहापार्थिवं प्रति
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्
दमयन्ती
बृहन्सेने व्रजामात्यानानाय्य नलशासनात्
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु
बृहदश्वः
इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर
उवाच देव्या वचनं मन्त्रिणां सा समीपतः
ततस्ते मन्त्रिणस्सर्वे विज्ञाय नलशासनम्
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्
प्रकृतीस्तास्तथा दृष्ट्वा द्वितीयमुपसंस्थिताः
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान्
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह
दमयन्ती
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्
सूतमानय कल्याणि महत् कार्यमुपस्थितम्
बृहदश्वः
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम्
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः
वार्ष्णेयं तु ततो भैमी श्लक्ष्णया मधुरया गिरा
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता
दमयन्ती
जानीषे त्वं यथा राजा सम्यग्वृत्तस्सदा त्वयि
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि
यथा यथा हि नृपतिः पुष्करेण हि जीयते
तथा तथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च
ममापि च तथा वाक्यं नाभिनन्दति मोहितः
तथा राज्ञां प्रदीप्तानां भाग्यानामद्य सारथे
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः
यत्तु मे वचनं राजा नाभिनन्दति मोहितः
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः
न हि मे शुध्यते भावो विनाशं प्रति सारथे
नलस्य दयितानश्वान्योजयित्वा महाजवान्
रथमारोप्य मिथुनं कुण्डिनं यातुमर्हसि
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा
अश्वांश्चैव यथाकामं वस वाऽन्यत्र गच्छ वा
बृहदश्वः
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः
न्यवेदयदशेषेण नलामात्येषु मुख्यशः
तैस्समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्
आमन्त्र्य भीमं राजानमार्तश्शोचन्नलं नृपम्
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः
भृतिं च स ददौ चास्य सारथ्येन नियोजितः
बृहदश्वः
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः
पुष्करेण हृतं राज्यं यच्चापि वसु किञ्चन
पुष्करः
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया
दमयन्त्याः पणस्साधु वर्ततां यदि मन्यसे
बृहदश्वः
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना
व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत्
ततः पुष्करमालोक्य नलः परममन्युमान्
उवाच विद्यतेऽन्यच्च धनं मम नराधम
पणन्निव च निक्षिप्य पुण्यश्लोकस्तु दुर्मनाः
उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च
उद्धृत्य सर्वगात्रेभ्यो भूषणानि महायशाः
एकवासो हि संवीतः सुहृदां शोकवर्धनः
निश्चक्राम नलो राजा त्यक्त्वा तु विपुलं धनम्
दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात्
स तया नगराभ्याशे तां रात्रिं नैषधोऽवसत्
पुष्करस्तु महाराज घोषयामास वै पुरे
नले यस्सम्यगातिष्ठेत्स गच्छेद्वध्यतामिति
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च
पौरा न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर
स तया नगराभ्याशे सत्कारार्हो न सत्कृतः
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन्
क्षुधया पीड्यमानस्तु नलो बहुतिथेऽहनि
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्
स चिन्तयामास तदा निषधाधिपतिर्नृपः
अस्ति भक्षो ममाद्यापि वसु चेदं भविष्यति
ततस्तानुत्तरीयेण वाससा समवास्तृणोत्
तस्योत्तरीयमादाय सर्वे जग्मुर्विहायसा
उन्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम्
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्
खगाः
वयमक्षास्सुदुर्बुद्धे तव वासो जिहीर्षवः
आगता न हि नः प्रीतिस्सवाससि गते त्वयि
बृहदश्वः
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम्
पुण्यश्लोकोऽपि वै राजा दमयन्तीमथाब्रवीत्
नलः
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते
प्राणयात्रां न विन्दे च दुःखितः क्षुधयाऽर्दितः
येषां कृते न सत्कारमकुर्वन्मम नैषधाः
त इमे शकुना भूत्वा वासश्चापहरन्ति मे
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः
भर्ता तेऽसौ निबोधेदं वचनं हितमात्मनः
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः
एष पन्था विदर्भाणामेष यास्यति कोसलान्
ततःपरमदेशोऽयं दक्षिणो दक्षिणापथः
बृहदश्वः
ततस्सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच दमयन्ती तं नैषधं करुणं वचः
दमयन्ती
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः
तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनःपुनः
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्
वने घोरे महाराज नाशयिष्याम्यहं क्लमम्
न च भार्यासमं किञ्चिद्विद्यते भेषजं मतम्
नित्यं हि सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते
नलः
एवमेतद्यथाऽऽत्थ त्वं दमयन्ति सुमध्यमे
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते
दमयन्ती
यदि मां त्वं महाराज न विहातुमिहेच्छसि
तत्किमर्थं विदर्भाणां पन्थास्समुपदिश्यते
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि
चेतसा त्वपकृष्टस्त्वं मां त्यजेथा महीपते
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम
अतो निमित्तं शोकं मे वर्धयस्यमरप्रभ
यदि चायमभिप्रायस्तव राजन्भविष्यति
सहितावेव गच्छावो विदर्भान्यदि मन्यसे
बृहदश्वः
ततस्स राजा त्वां दृष्ट्वा पूजयिष्यति मानद
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे
इत्युक्तस्स तदा देव्या नलो वचनमब्रवीत्
नलः
यथा राज्यं पितुस्ते तत्तथा मम न संशयः
न तु तत्र गमिष्यामि विषमस्थः कथञ्चन
कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः
परिद्यूनो गमिष्यामि तव शोकविवर्धनः
बृहदश्वः
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः
सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृतः
तावेकवस्त्रसंवीतावटमानावितस्ततः
क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः
तां सभामुपसम्प्राप्य वनमध्ये खिलीकृताम्
वैदर्भ्या सहितो राजा निषसाद महीतले
स वै विवस्त्रो विकचो मलिनः पांसुगुण्ठितः
दमयन्त्या सह श्रान्तस्सुष्वाप धरणीतले
दमयन्त्यपि कल्याणी निद्रया पतिता ततः
सहसा दुःखमासाद्य सुकुमारी तपस्विनी
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते
शोकोन्मथितचित्तस्सन्न स्म शेते यथा पुरा
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा
मामियं त्वनुरक्तेयं दुःखमाप्नोति मत्कृते
मद्विहीना स्वयं गच्छेत्कदाचित्स्वजनं प्रति
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा
उत्सर्गे संशयस्स्यात्तु विन्देतापि सुखं क्वचित्
स विनिश्चित्य बहुधा विचार्य च पुनःपुनः
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्
कथं वासोऽवकर्तेयं न च बुद्ध्येत मे प्रिया
चिन्त्यैवं नैषधो राजा सभां पर्यचरन्नृपः
परिधावन्नथ नल इतश्चेतश्च सत्वरः
आससाद सभोद्देशे विकोशं खड्गमुत्तमम्
तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः
ततो निबद्धहृदयः पुनरागम्य तां सभाम्
दमयन्तीं तथा दृष्ट्वा रुरोद स नराधिपः
नलः
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्
सेयमद्य सभामध्ये शेते भूमावनाथवत्
इयं वस्त्रावकर्तेन संवीता चारुहासिनी
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति
कथमेका सती भैमी मया विरहिता शुभा
चरिष्यति वने घोरे मृगव्यालसमाकुले
बृहदश्वः
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः
आकृष्यमाणः कलिना सौहृदेनापकृष्यते
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा
दोलेव मुहुरायाति याति चैव सभां मुहुः
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः
जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः