बृहदश्वः
वृते तु नैषधे भैम्या लोकपाला महौजसः
यान्तो ददृशुरायान्तं द्वापरं कलिना सह
अथाब्रवीत्कलिं शक्रस्सम्प्रेक्ष्य बलवृत्रहा
इन्द्रः
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि
बृहदश्वः
ततोऽब्रवीत्कलिश्शक्रं दमयन्त्यास्स्वयंवरम्
गत्वा हि वरयिष्ये तां मनो हि मम तद्गतम्
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तस्स स्वयंवरः
नलो राजा पतिस्तस्या बभूव सुमहाद्युतिः
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा
कलिः
बृहदश्वः
देवानां मानुषं मध्ये यत्सा पतिमविन्दत
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्
एवमुक्तास्तु कलिना प्रत्यूचुस्ते दिवौकसः
देवाः
अस्माभिस्समनुज्ञातो दमयन्त्या नलो वृतः
यो वेद धर्मानखिलान्यथावच्चरितव्रतः
कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम्
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः
अहिंसायां रतो यश्च सत्यवादी दृढव्रतः
यस्मिन्सत्यं धृतिर्दानं तपश्शौचं सदा शमः
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना
एवङ्गुणं नलं यो वै कामयेच्छासितुं कले
असकृन्नरके मज्जेदगाधे विपुले प्लवे
बृहदश्वः
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्
कलिः
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते
त्वमप्यक्षान्समाविश्य कर्तुं मे साह्यमर्हसि
मम प्रियकृते तस्मिन्कृतवांश्च भविष्यसि
बृहदश्वः
एवं स समयं कृत्वा द्वापरेण कलिस्तदा
आजगाम ततस्तत्र यत्र राजा स नैषधः
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः
अकृत्वा पादयोश्शौचं तत्रैनं कलिराविशत्
स समाविश्य च नलं समयं पुष्करस्य च
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै
अक्षद्यूते नलं जेता भवान्हि सहितो मया
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम्
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात्
आसाद्य तु नलं वीरं पुष्करः परवीरहा
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति पुनः पुनः
न चक्षमे ततो राजा समाह्वानं महायशाः
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत
ततस्स राज्ञा सहसा देवितुं सम्प्रचक्रमे
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा
तमक्षमदसम्मत्तं सुहृदां न तु कश्चन
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम्
ततः पौरजनास्सर्वे मन्त्रिभिस्सह भारत
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्
ततस्सूत उपागम्य दमयन्त्यै न्यवेदयत्
सूतः
पौरजनपदस्सर्वो द्वारि तिष्ठति कार्यवान्
निवेद्यतां नैषधाय सर्वाः प्रकृतयस्स्थिताः
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः
बृहदश्वः
ततस्सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच नैषधं भैमी शोकोपहतचेतना
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः
मन्त्रिभिस्सहितस्सर्वै राजभक्तिपुरस्कृतः
वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम्
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत
तां तथा रुचिरापाङ्गीं विलपन्तीं शुचिस्मिताम्
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन
ततस्ते मन्त्रिणस्सर्वे ते चैव पुरवासिनः
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयम्
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत