बृहदश्वः
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा
आजुहाव महीपालान्भीमो राजा स्वयंवरे
तच्छ्रुत्वा पृथिवीपालास्सर्वे हृच्छयपीडिताः
त्वरितास्समुपाजग्मुर्दमयन्तीमभीप्सवः
कनकस्तम्भरुचिरं तोरणेन विराजितम्
विविशुस्ते महारङ्गं नृपास्सिंह इवाचलम्
तत्राऽऽसनेषु विविधेष्वासीनाः पृथिवीक्षितः
सुरभिस्रग्धरास्सर्वे प्रमृष्टमणिकुण्डलाः
तां राजसमितिं पूर्णां नागैर्गिरिगुहामिव
सम्पूर्णामृषभस्कन्धैर्व्याघ्रैर्गिरिगुहामिव
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः
सुकेशान्तानि चारूणि सुनासानि शुभानि च
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि
दमयन्ती ततो रङ्गं प्रविवेश शुभानना
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्
तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम्
ततस्सङ्कीर्त्यमानेषु राज्ञां नामसु भारत
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह
तान्समीक्ष्य ततस्सर्वान्निर्विशेषाकृतीन्स्थितान्
सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
निर्विशेषं वयोवेषरूपाणां तत्र सा शुभा
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्
सा चिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्
एवं सञ्चिन्तयन्ती सा वैदर्भी तनुमध्यमा
श्रुतानि देवलिङ्गानि चिन्तयामास भारत
देवानां यानि लिङ्गानि स्थविरेभ्यश्श्रुतानि मे
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये
एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः
शरणं प्रति देवानां प्राप्तकालममन्यत
वाचा च मनसा चैव नमस्कारं प्रयुज्य च
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्
दमयन्ती
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे
मनसा वचसा चैव यथा नातिचराम्यहम्
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे
यथा देवैस्स मे भर्ता विहितो निषधाधिपः
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम्
बृहदश्वः
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम्
निश्चयं परमं तथ्यमनुरागं च नैषधे
मनो विशुद्धां बुद्धिं च भक्तिं रागं च भारत
यथोक्तं चक्रिरे देवास्सामर्थ्यं लिङ्गधारणे
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्
छायाद्वितीयो म्लानस्रग्रजस्स्वेदसमन्वितः
भूमिष्ठं नैषधं चैव निमेषेण च सूचितम्
सा समीक्ष्य तदा देवान्पुण्यश्लोकं च भारत
नैषधं वरयामास भैमी धर्मेण भारत
विलज्जमाना वस्त्रान्ते जग्राहाऽऽयतलोचना
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी
ततो हाहेति सञ्जज्ञे शब्दो मुक्तो नरोत्तमैः
देवैर्महर्षिभिश्चैव साधुसाध्विति भारत
विस्मितैरीरितश्शब्दः प्रशंसद्भिर्नलं नृपम्
वृते तु नैषधे भैम्या लोकपाला महौजसः
प्रहृष्टमनसस्सर्वे नलायाष्टौ वरान्ददुः
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्
नैषधाय ददौ शक्रः प्रीयमाणश्शचीपतिः
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः
लोकानात्मभवांश्चैव ददौ तस्मै हुताशनः
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्
अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः
स्रजश्चोत्तमगन्धाढ्यास्सर्वे च मिथुनं ददुः
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः
एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत
यथा स्वप्नं महाराज तथैव ददृशुर्जनाः
ततस्स्वयंवरं चक्रे भीमो राजाऽतिमानुषम्
समागतेषु सर्वेषु भूपालेषु विशाम्पते
दमयन्त्यपि तत्रैषा राजमण्डलमृद्धिमत्
अभिवीक्ष्य नैषधं वव्रे भैमी धर्मेण भारत
वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे
सर्व एव महीपालाः प्रतिजग्मुर्यथागतम्
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः
विवाहं कारयामास दमयन्त्या नलस्य च
अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः
रेमे सह तया राजञ्छच्येव बलवृत्रहा
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः
अन्यैश्च बहुभिश्श्रीमान्क्रतुभिश्चाप्तदक्षिणैः
पुनश्च रमणीयेषु वनेषूपवनेषु च
दमयन्त्या सह नलो विजहारामरोपमः
एवं स यजमानश्च विहरंश्च नराधिपः
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः