बृहदश्वः
दमयन्ती
सा नमस्कृत्य देवेभ्यः प्रहसन्तीदमब्रवीत्
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन
सर्वं तत् तव विस्रब्धं कुरु प्रणयमीश्वर
हंसानां वचनं यत्तत् तन्मां दहति पार्थिव
त्वत्कृते हि महाराज राजानस्सन्निपातिताः
बृहदश्वः
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
नलः
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि
येषामहं लोककृतामीश्वराणां महात्मनाम्
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्
बृहदश्वः
ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता
प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्
दमयन्ती
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर
येन दोषो न भविता तव राजन्कथञ्चन
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः
आयान्तु सहितास्सर्वे मम यत्र स्वयंवरः
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति
बृहदश्वः
एवमुक्तस्तु वैदर्भ्या नलो राजा विशाम्पते
आजगाम पुनस्तत्र यत्र देवास्समागताः
तमपश्यन्नथाऽऽयान्तं लोकपाला महेश्वराः
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम्
देवाः
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता
किमब्रवीच्च नस्सर्वान्वद भूमिपतेऽनघ
नलः
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्
प्रविष्टस्सुमहाकक्ष्यं दण्डिभिस्स्थविरैर्वृतम्
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः
ऋते तां पार्थिवसुतां भवतामेव तेजसा
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः
वर्ण्यमानेषु च मया भवत्सु रुचिरानना
मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः
अब्रवीच्चैव मां बाला आयान्तु सुरसत्तमाः
त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः
तेषामहं सन्निधौ त्वां वरयिष्ये नरोत्तमम्
एवं तव महाबाहो दोषो न भवितेति ह
एतावदेव विबुधा यथावृत्तमुदाहृतम्
मया शेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः