बृहदश्वः
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा
ततश्चिन्तापरा दीना विवर्णवदना कृशा
बभूव दमयन्ती तु निःश्वासपरमा तदा
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
न नक्तं न दिवा शेते हाहेति वदती मुहुः
तामस्वस्थां तदाकारां सख्यस्ता जग्मुरिङ्गितैः
ततो विदर्भपतये दमयन्त्यास्सखीगणः
न्यवेदयत चास्वस्थां दमयन्तीं नरेश्वर
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति
किमस्मद्दुहिता मेऽद्य नातिस्वस्थेव लक्ष्यते
स समीक्ष्य महीपालस्स्वां सुतां प्राप्तयौवनाम्
अपश्यदात्मनः कार्यं दमयन्त्यास्स्वयंवरम्
स सन्निपातयामास महीपालान्विशाम्पते
एषोऽनुभूयतां वीरास्स्वयंवर इति प्रभो
श्रुत्वा तु पार्थिवास्सर्वे दमयन्त्यास्स्वयंवरम्
अभिजग्मुस्तदा वीरा राजानो भीमशासनात्
हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम्
विचित्रमाल्याभरणैर्ध्वजैश्चित्रैस्स्वलङ्कृतैः
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ
अटमानौ महात्मानाविन्द्रलोकमितो गतौ
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ
देवराजस्य भवनं विविशाते सुपूजितौ
तावर्चयित्वा मघवा ततः कुशलमव्ययम्
पप्रच्छानामयं चापि तयोस्सर्वगतं विभुः
नारदः
आवयोः कुशलं देव सर्वत्रगतमीश्वर
लोके च मघवन्कृत्स्ना नृपाः कुशलिनो विभो
बृहदश्वः
नारदस्य वचश्श्रुत्वा पप्रच्छ बलवृत्रहा
इन्द्रः
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्
क्व नु ते क्षत्रियाश्शूरा न हि पश्यामि तानहम्
आगच्छतो महीपालानतिथीन्दयितान्मम
बृहदश्वः
नारदः
एवमुक्तस्तु शक्रेण नारदः प्रत्युवाच ह
भगवञ्शृणु मे येन न दृश्यन्ते महीक्षितः
विदर्भराजतनया दमयन्तीति विश्रुता
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः
तस्यास्स्वयंवरश्शक्र भविता न चिरादिव
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन
बृहदश्वः
एतेषु कथ्यमानेषु लोकपालाश्च साग्निकाः
आजग्मुर्देवराजस्य समीपममरोत्तमाः
ततस्ते शुश्रुवुस्सर्वे नारदस्य वचो महत्
श्रुत्वा चैवाब्रुवन्सर्वे गच्छाम वयमप्युत
ततस्सर्वे महाराज सगणास्सहवाहनाः
विदर्भानभितो जग्मुर्यथा सर्वे महीक्षितः
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्
अभ्यगच्छदमेयात्मा दमयन्तीमनुव्रतः
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्
तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः
अब्रुवन्नैषधं राजन्नवतीर्य नभस्स्थलात्
देवाः
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवात्
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम
बृहदश्वः
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत
अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः
नलः
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः
किञ्च तत्र मया कार्यं कथयध्वं यथातथम्
बृहदश्वः
इन्द्रः
एवमुक्तो नैषधेन भगवानभ्यभाषत
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्
अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय
लोकपालास्सहेन्द्रास्त्वां दमयन्ति दिदृक्षवः
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः
तेषामन्यतमं देवं पतित्वे वरयेति ह
नलः
बृहदश्वः
एवमुक्तस्स शक्रेण नलः प्राञ्जलिरब्रवीत्
एकार्थसमवेतं मां न प्रेषयितुमर्हथ
कथं हि जातसङ्कल्पस्स्त्रियमुत्सहते पुमान्
परार्थमीदृशं वक्तुं तद्वै पश्यामरेश्वर
बृहदश्वः
एवमुक्तो नैषधेन भगवान्पुनरब्रवीत्
इन्द्रः
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध
न करिष्यसि कस्मात्त्वं व्रज नैषध मा चिरम्
बृहदश्वः
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय
श्रेयसा योक्ष्यसे हि त्वं कुर्वन्नमरशासनम्
एवमुक्तस्स देवैस्तैर्नैषधः पुनरब्रवीत्
नलः
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे
बृहदश्वः
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्
आक्षिपन्तीमिव च तां शशिनं स्वेन तेजसा
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्
सत्यं चिकीर्षमाणस्तु वारयामास हृच्छयम्
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः
आसनेभ्यस्समुत्पेतुस्तेजसा तस्य धर्षिताः
प्रशशंसुश्च सुप्रीता नलं तं विस्मयान्विताः
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन्
अहो रूपमहो धैर्यमहो कान्तिर्महात्मनः
कोऽयं देवोऽथवा यक्षो गन्धर्वो नु भविष्यति
न त्वेव शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन
तेजसा धर्षितास्सर्वा लज्जावत्यो वराङ्गनाः
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी
दमयन्ती नलं वीरमभ्यभाषत विस्मिता
दमयन्ती
कस्त्वं सर्वानवद्याङ्ग मम हर्षविवर्धन
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामहेऽनघ
बृहदश्वः
कथमागमनं चेह कथं चासि न लक्षितः
सुरक्षितं च मे वेश्म राजा चैवोग्रशासनः
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्यभाषत
नलः
नलं मां विद्धि कल्याणि देवदूतमिहागतम्
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः
तेषामन्यतमं देवं पतिं वरय शोभने
तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत्
एतदर्थमहं भद्रे प्रेषितस्सुरसत्तमैः
एतच्छ्रुत्वा तु मे वाक्यं प्रकुरुष्व यथेप्सितम्