बृहदश्वः
आसीद्राजा नलो नाम वीरसेनसुतो बली
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः
यज्वा दानपतिर्दक्षस्सदा शीलपुरस्कृतः
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा
उपर्युपरि सर्वेषामादित्या इव तेजसा
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः
अक्षप्रियस्सत्यवादी महानक्षौहिणीपतिः
ईप्सितो वरनारीणामुदारस्संयतेन्द्रियः
रक्षिता धन्विनां श्रेष्ठस्साक्षादिव मनुस्स्वयम्
तथैवाऽऽसीद्विदर्भेषु भीमो भीमपराक्रमः
शूरस्सर्वगुणोपेतः प्रजाकामस्स चाप्रजाः
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्
तस्मै प्रसन्नो दमनस्सभार्याय वरं ददौ
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्
उपपन्नान्गुणैस्सर्वैर्भीमान्भीमपराक्रमान्
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम्
शतं सखीनां च तथा पर्युपास्ते शचीमिव
ततस्सा भ्राजते ताभिस्सर्वाभरणभूषिता
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा
अतीव रूपसम्पन्ना श्रीरिवाऽऽयतलोचना
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्
मानुषेष्वपि नैवान्या दृष्टपूर्वा श्रुताऽपि वा
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी
नलश्च राजशार्दूलो रूपेणाप्रतिमो भुवि
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्
तस्यास्समीपे तु नलं प्रशशंसुः कुतूहलात्
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः
तयोरदृष्टः कामोऽभूच्छृण्वतोस्सततं गुणान्
अन्योन्यं प्रति कौन्तेय सोऽभ्यवर्धत हृच्छयः
अशक्नुवन्नलः कामं तदा धारयितुं हृदा
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः
स ददर्श ततो हंसाञ्जातरूपपरिच्छदान्
वने विचरतां तेषामेकं जग्राह पक्षिणम्
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम्
न हन्तव्योस्मि ते राजन्करिष्यामि तव प्रियम्
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्
तव चैव यथा भार्या भविष्यति तथाऽनघ
विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान्
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः
ते तु हंसास्समुत्पत्य विदर्भानगमंस्ततः
विदर्भनगरीं गत्वा दमयन्त्यास्तदाऽन्तिके
निपेतुस्ते गरुत्मन्तस्सा ददर्शाथ तान्खगान्
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे
अथ हंसा विससृपुस्सर्वतः प्रमदावने
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन्
दमयन्ती तु यं हंसं समुपाधावदन्तिकम्
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्
हंसः
दमयन्ति नलो नाम निषधेषु महीपतिः
अश्विनोस्सदृशो रूपे न समोऽस्त्यस्य मानुषः
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः
विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत्
बृहदश्वः
एवमुक्ता तु हंसेन दमयन्ती विशाम्पते
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद
तथेत्युक्त्वा ततः कन्यां विदर्भस्य विशाम्पते
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्