जनमेजयः
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः
वैशम्पायनः
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः
ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले
दुःखार्ता भरतश्रेष्ठा निषेदुस्सह कृष्णया
धनञ्जयं शोचमानास्साश्रुकण्ठास्सुदुःखिताः
तद्वियोगार्दितान्सर्वाञ्शोकस्समभिपुप्लुवे
धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत
भीमसेनः
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः
यस्मिन्विनष्टे पाञ्चालास्सह पुत्रैस्तथा वयम्
सात्यकिर्वासुदेवोऽपि विनश्येयुरसंशयः
योऽसौ गच्छति तेजस्वी बहून्क्लेशान्विचिन्तयन्
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः
हतान्मन्यामहे सर्वान्धार्तराष्ट्रान्ससौबलान्
यस्य प्रभावान्न मया सभामध्ये महाबलाः
नीता लोकममुं सर्वे धार्तराष्ट्रास्ससौबलाः
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः
सहामहे भवन्मूलं वासुदेवेन पालिताः
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान्
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम्
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः
अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः
स क्षात्रधर्मविद्राजन्मा धर्मार्थी व्यनीनशः
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्
व्यूढानीका महाराज जवेनैव महाहवे
धार्तराष्ट्रानमुं लोकं गमयाम विशाम्पते
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्
दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते
मया प्रशासिते पश्चात्त्वमेष्यसि वनात्ततः
एवं कृते न ते दोषो भविष्यति विशाम्पते
यज्ञैश्च विविधैस्तात कृतं पापमरिन्दम
अवधूय महाराज गच्छेम स्वर्गमुत्तमम्
एवमेतद्भवेद्राजन्यदि राजा न बालिशः
अस्माकं दीर्घसूत्रस्स्याद्भवान्धर्मपरायणः
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चितम्
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते
तथा भारतधर्मेषु धर्मज्ञैरिह दृश्यते
अहोरात्रं महाराज तुल्यं संवत्सरेण ह
तथैव वेदवचनं दृश्यते नित्यदा विभो
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत
त्रयोदशादितः कालो ज्ञायतां परिनिष्ठितः
कालो दुर्योधनं हन्तुं सानुबन्धमरिन्दम
एकाग्रां पृथिवीं कृत्स्नां पुरा राजन्करोति सः
वैशम्पायनः
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः
उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम्
युधिष्ठिरः
असंशयं महाबाहो हनिष्यसि सुयोधनम्
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना
यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते
अन्तरेणापि कौन्तेयं निकृतं पापनिश्चयम्
हन्ता त्वमसि दुर्धर्षं सानुबन्धं सुयोधनम्
वैशम्पायनः
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे
आजगाम महाभागो बृहदश्वो महानृषिः
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम्
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत
युधिष्ठिरः
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम्
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः
अनक्षज्ञस्य हि ततो निकृत्या पापनिश्चयैः
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी
पुनर्द्यूतेन मां जित्वा वनवासं सुदारुणम्
प्राव्राजयन्महारण्यमजिनैः परिवारितम्
सोऽहं वने दुर्वसतिं वसन्परमदुःखितः
अक्षद्यूतानुषङ्गेण गिरश्शृण्वन्सुदारुणाः
सम्प्राप्तानां च सुहृदां शृण्वन्सत्याभिसंश्रिताः
द्यूतात्प्रभृति धर्मज्ञ रात्रीस्सर्वा विचिन्तयन्
यस्मिंश्च वयमायत्तास्सदा गाण्डीवधन्वनि
महात्मना तेन विना गतसत्त्वा इवास्महे
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम्
इति सर्वे महेष्वासं चिन्तयाना धनञ्जयम्
अनेन तु विषण्णोऽहं कारणेन सहानुजः
वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः
जानन्तः प्रीयमाणा वै देवने भ्रातृभिस्सह
द्यूतेनैवाऽऽह्वयिष्यन्ति बलादक्षेषु तद्विदः
आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम्
पणे च मम नात्यर्थं विद्यते वसु किञ्चन
एतत्सर्वमनुध्यायंश्चिन्तयामि दिवानिशम्
न मत्तो दुःखिततरः पुमानस्तीह कश्चन
नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः
एवं ब्रुवन्तं राजानमुवाच भगवानृषिः
शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः
बृहदश्वः
न विषादे मनः कार्यं त्वया बुद्धिमतां वर
आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यति
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित्
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव
अत्र ते कथयिष्यामि यदि शुश्रूषसे नृप
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते
वैशम्पायनः
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम्
बृहदश्वः
शृणु राजन्नवहितस्सह भ्रातृभिरच्युत
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते
निषधेषु महीपालो वीरसेन इति स्म ह
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान्
स निकृत्या जितो राजा पुष्करेणेति नश्श्रुतम्
वनवासमदुःखार्तो भार्यया न्यवसत्सह
न तस्य दासा न रथो न भ्राता न च बान्धवाः
वने निवसतो राजन्नश्रूयन्त कदाचन
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसम्मितैः
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हति शोचितुम्
युधिष्ठिरः
विस्तरेणाहमिच्छामि नलस्य च महात्मनः
चरितं वदतां श्रेष्ठ तदाख्यातुमिहार्हसि