वैशम्पायनः
दीर्घमुष्णं विनिःश्वस्य धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ
धृतराष्ट्रः
देवपुत्रौ महाभागौ देवराजसमद्युती
नकुलस्सहदेवश्च पाण्डवौ युद्धदुर्मदौ
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि
स्थास्येते सिंहविक्रान्तावश्विनाविव दुस्सहौ
न शेषमनुपश्यामि मम सैन्यस्य सञ्जय
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ
द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ
वृष्णयोऽथ महेष्वासाः पाञ्चालाश्चामितौजसः
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन
न शक्यस्सहितुं वेगः पर्वतैरपि दुस्सहः
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः
शैक्यया वीरघातिन्या गदया विचरिष्यति
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः
स्मरणीयास्स्मरिष्यामि मया या न कृताः पुरा
सञ्जयः
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः
श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः
त्वरितः काम्यके पार्थान्समभावयदच्युतः
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः
विराटो धृष्टकेतुश्च केकयाश्च महारथाः
तैश्च यत्कथितं दृष्ट्वा तत्र पार्थान्तथागतान्
चारेण विदितं सर्वं तन्मया वेदितं च ते
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः
अमर्षी सह कृष्णोऽपि दृष्ट्वा पार्थांस्तदा गतान्
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्
श्रीभगवान्
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह
राजसूये मया दृष्टा नृपैरन्यैस्सुदुर्लभा
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्
कलिङ्गाङ्गमरून्पौण्ड्रान्सचोलद्रमिलान्ध्रकान्
सागरानूपकांश्चैव ये च पत्तनवासिनः
सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः
पश्चिमानि च राज्यानि शतशस्सागरान्तिकान्
पप्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान्
हारहूणांश्च चीरांश्च तुषारान्सैन्धवांस्तथा
वङ्गांश्च मगधान्पुण्ड्रान्स्त्रीराज्यानथ तङ्कणान्
एते चान्ये च बहवो ये च ते भरतर्षभ
आगतानहमद्राक्षं यज्ञे ते परिवेषकात्
सा ते समृद्धिर्यैराप्ता चपला प्रतिसारिणी
आदत्त्वा जीवितं तेषामाहरिष्यामि तामहम्
रामेण सह कौरव्य भीमार्जुनयमैस्तथा
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाऽऽहुकेन च
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति
ततस्त्वं हास्तिनपुरे भ्रातृभिस्सहितो वसन्
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्
युधिष्ठिरः
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे
शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च
अभिगृह्णामि ते वाचं सत्यामभिहितो ह्यसि
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव
प्रतिज्ञातो वने वासो राज्ञां मध्ये मया च तत्
सञ्जयः
धर्मराजस्य वचनं श्रुत्वा सत्यं सभासदः
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा
केशवं मधुरैर्वाक्यैः कालयुक्तममर्षितम्
पाञ्चालीं चाह्वयामास वासुदेवस्तु शृण्वताम्
श्रीभगवान्
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्
प्रतिजानामि ते सत्यं मा शुचो वरवर्णिनि
ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा
मांसानि तेषां खादन्तो हरिष्यन्ति मृगद्विजाः
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा
उत्तमाङ्गानि कर्षन्तो यैस्त्वं नीता सभां पुरा
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्
परिक्लिष्टाऽसि यैस्तत्र यैश्चासि समुपेक्षिता
तेषामुत्कृष्टशिरसां भूमिः पास्यति शोणितम्
सञ्जयः
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः
सर्वे तेजस्विनश्शूराः सर्वे चाहितलक्षणाः
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः
रामश्च कृष्णश्च धनञ्जयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ
माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्रास्सह मद्रराज्ञा
एतान्सर्वाल्लोँकधीरानजेयान्महात्मनस्सानुबन्धान्ससैन्यान्
को जीवितार्थी समरेऽभ्युदीयात्क्रुद्धान्सिंहान्केसरिणो यथैव
धृतराष्ट्रः
यन्माऽब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौधः
मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम्
असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम्