जनमेजयः
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्
कथं च राजा पुत्रं स्वमुपेक्षेताल्पचेतसम्
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्
वन्यं वाऽप्यथवा कृष्टमेतदाख्यातु मे भवान्
वैशम्पायनः
वानेयांश्च मृगांस्ते तु शुद्धैर्बाणैर्निपातितान्
ब्राह्मणानां निवेद्याग्रे भुञ्जते ते महारथाः
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान्
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत्
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते
कृशो वा दुर्बलो वाऽपि दीनो भीतोऽपि वा पुनः
न तत्राविनयः कश्चिददृश्यत तदा द्विजः
पुत्रानिव प्रियान्ज्ञातीन्भ्रातॄनिव सहोदरान्
पुरोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः
पतींश्च द्रौपदी सर्वान्द्विजातींश्च यशस्विनी
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाऽप्युदीचीम्
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य
तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्
पञ्चैव वर्षाणि तथा व्यतीयुरधीयतां जपतां जुह्वतां च