जनमेजयः
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः
धृतराष्ट्रो महाप्रज्ञश्श्रुत्वा तत्र किमब्रवीत्
वैशम्पायनः
पार्थं श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत्
धृतराष्ट्रः
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
कच्चित्तवापि विदितं याथातथ्येन सारथे
प्रवृत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रस्सुदुर्बुद्धिः पृथिवीं घातयिष्यति
यस्य नित्यमृता वाचस्स्वैरेष्वपि महात्मनः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्
नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरान्तगः
मम पुत्रा दुरात्मानस्सर्वे मृत्युवशं गताः
येषां युद्धं दुराधर्षैः पाण्डवैस्समुपस्थितम्
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि
द्रोणकर्णौ प्रतीयातां यदि भीष्मो निवारणे
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम्
घृणी कर्णः प्रमादी च आचार्यस्स्थविरो गुरुः
अमर्षी बलवान्पार्थस्संरम्भी दृढविक्रमः
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम्
सर्वे ह्यस्त्रविदश्शूरास्सर्वे प्राप्ता महद्यशः
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय
न तु कुर्युश्शराश्शेषं क्षिप्तास्तात किरीटिना
यथा हि किरणा भानोस्तपन्तीह चराचरम्
तथा पार्थकरोत्सृष्टाश्शरास्तप्स्यन्ति मत्सुतान्
अपि वा रथघोषेण भयार्ता सव्यसाचिनः
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः
समुद्धरन्प्रवपंश्चैव बाणान् तथाऽऽततायी समरे किरीटी
सृष्टोऽन्तकस्सर्वहरो विधात्रा भवेद्यथा तद्वदवारणीयः
सञ्जयः
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति
सर्वमेतद्यथातत्त्वं न तु मिथ्या महीपते
मन्युनाऽपि समाविष्टाः पाण्डवास्त्वमितौजसः
दृष्ट्वा नीतां सभां कृष्णां धर्मपत्नीं यशस्विनीम्
दुःशासनस्य ता वाचश्श्रुत्वा वै दारुणोदयाः
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः
श्रुतं हि ते महाराज यथा पार्थेन संयुगे
एकादशतनुस्स्थाणुर्धनुषा परितोषितः
कैरातं वेषमास्थाय योधयामास फल्गुनम्
जिज्ञासुस्सर्वदेवेशः कपर्दी भगवान्स्वयम्
लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्
नैतदुत्पत्स्यतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्
कस्तमुत्सहते वीरो युद्धे न जयितुं पुमान्
आसादितमिदं घोरं तुमुलं रोमहर्षणम्
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्
यत्र विस्फुरमाणौष्ठो भीमः प्राह वचो महत्
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ
ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः
सर्वे प्रहरतां श्रेष्ठास्सर्वे चामिततेजसः
सर्वास्त्रनिपुणास्सर्वे देवैरपि सुदुर्जयाः
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः
धृतराष्ट्रः
किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते
ममापि वचनं सूत न शुश्रूषति मन्दभाक्
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा
निर्दहेयुर्मम सुतान्किम्पुनर्मन्युनेरिताः
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
दिव्यास्त्रमन्त्रमुदितास्सादयेयुस्सुरानपि
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः
हरिस्त्रैलोक्यनाथस्स किन्नु तस्य न निर्जितम्
इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च
सर्वथा नास्ति मे पुत्रस्सहामात्यस्सबान्धवः
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्त्वते