वैशम्पायनः
कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत्
पार्थस्य तस्य विज्ञाय सक्तं चक्षुः प्रसङ्गतः
इन्द्रः
गन्धर्वराजाद्य मया प्रहिताऽप्सरसां वरा
उर्वशी पुरुषव्याघ्रं उपतिष्ठतु फल्गुनम्
यथा न तामभिसृतां विद्यादस्मन्नियोगतः
तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद
वैशम्पायनः
एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम्
तां दृष्ट्वा विदितो हृष्टस्स्वागतेनार्चितस्तया
सुखासीनां सुखासीनः स्मितपूर्वं वचोऽब्रवीत्
चित्रसेनः
विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमुहागतः
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना
यस्स देवमनुष्येषु प्रख्यातस्सहजैर्गुणैः
श्रिया शीलेन रूपेण श्रुतेन च बलेन च
प्रख्यातश्शौर्यवीर्याभ्यां सम्पन्नः प्रतिभानवान्
तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः
साङ्गोपनिषदान्वेदान् गुरुशुश्रूषुरात्मवान्
योऽधीते चतुरस्सर्वान् मेधावी गुणवानिह
ब्रह्मचर्येण दाक्ष्येण प्रसवैस्स्वधया च यः
एकश्च रक्षिता चैव त्रिदिवं मघवानिव
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः
सुहृदश्चान्नपानेन विविधेनाभिवर्षति
सत्यवागूर्जितो वक्ता रूपवाननहङ्कृतः
भक्तानुकम्पी कान्तश्च प्रियोऽद्य स्थिरसङ्गरः
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः
विदितस्तेऽर्जुनो वीरस्स स्वर्गफलमाप्तवान्
तव शक्राभ्यनुज्ञातः पादावद्य प्रपद्यताम्
तदेवं कुरु कल्याणि प्रपन्नस्त्वां धनञ्जयः॥
वैशम्पायनः
एवमुक्ता स्मितं कृत्वा सन्मानं बहुमान्य च
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता
उर्वशी
यत्त्वस्य कथितस्सत्यो गुणोद्देशस्त्वयाऽनघ
तं श्रुत्वाऽद्य प्रियं नारी वृणुयात्किमतोऽर्जुनम्
महेन्द्रस्य नियोगेन त्वत्तस्सम्प्रणयेन च
तस्य चाहं गुणौघेन फल्गुने जातमन्मथा
गच्छ त्वं हि यथाकाममागमिष्याम्यहं सखे
वैशम्पायनः
ततो विसृज्य गन्धर्वं कृतकृत्या शुचिस्मिता
उर्वशी चाकरोत्मानं पार्थप्रार्थनलालसा
स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः
धनञ्जयस्य रूपेण शक्रस्याभ्यर्थनेन च
अतिविद्धेन मनसा मन्मथेन च पीडिता
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे
चित्तसङ्कल्पभावेन सुचित्ताऽनन्यमानसा
मनोरथेन सम्प्राप्तं रमयन्तीव फल्गुनम्
निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत्
मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा
केशपाशेन ललना गच्छमाना व्यराजत
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च
शशिनं वक्त्रचन्द्रेण आह्वयन्तीव गच्छती
दिव्याङ्गरागौ रुचिरौ दिव्यचन्दनरूषितौ
गच्छन्त्या हारविकचौ स्तनौ तस्या ववल्गतुः
स्तनोद्वहनसङ्क्षोभात्ताम्यमाना पदे पदे
त्रिवलीदामचित्रेण मध्येनातीव शोभिता
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम्
मन्मथायतनं शुभ्रं रशनादामभूषितम्
ऋषीणामपि दिव्यानां मनोव्याघातकारणम्
सूक्ष्मवस्त्रधरं भाति जघनं चानवद्यया
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली
कूर्मपृष्ठोन्नतौ चास्याश्शोभेते किङ्किणीकिणौ
शीधुपानेन चाल्पेन तुष्टा च मदनेन च
विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत्
सिद्धचारणगन्धर्वैस्साग्रैर्याति विलासिनी
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता
तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेव गच्छति
ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः
भवनं पाण्डुपुत्रस्य फल्गुनस्य गुणाधिका
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता
अर्जुनस्य नरश्रेष्ठ उर्वशी परमाप्सराः
तत्र चोत्थाय शयनाद्वासविर्वासवोपमः
अशङ्कितमना राजन्प्रत्यगच्छत तां निशि
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः
पादाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्
अर्जुनः
अभिवादये त्वां शिरसा प्रमदेऽप्सरसां वरे
किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्
वैशम्पायनः
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी
गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम्
उर्वशी
यथा मे चित्रसेनेन कथितं मनुजोत्तम
तत्तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता
उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे
त्वदागमनतुष्ट्या च स्वर्गस्य परमोत्सवे
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः
समागमेऽश्विनोश्चापि वसूनां च नरोत्तम
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च
सिद्धचारणयक्षेषु महोरगगणेषु च
उपविष्टेषु हृष्टेषु स्थानमानप्रभावतः
ऋद्ध्या प्रज्वलमानेषु अग्नीषोमार्कवर्त्मसु
वीणासु वाद्यमानासु गन्धर्वैश्शक्रनन्दन
दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन
सर्वाप्सरस्समस्यासु प्रवृत्तासु कुरूत्तम
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम्
तव पित्राऽभ्यनुज्ञाता गतास्स्वनिलयान्सुराः
तथैवाप्सरसस्सर्वा विसृष्टा निलयं गताः
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः
ततश्शक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकम्
प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम्
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह
शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम्
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं स माऽब्रवीत्
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ
तवान्तिकमनुप्राप्ता शुश्रूषितुमरिन्दम
न केवलं हि शक्रेण प्रेषिता चाहमागता
चिराभिलषितो वीर ममाप्येष मनोरथः
वैशम्पायनः
तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः
अर्जुनः
अश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि
गुरुदारैस्समाना हि निश्चयेन वरानने
यच्चेष्टिताऽसि विस्पष्टं विशेषेण मया शुभे
तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते
इयं पौरववंशस्य जननी सुदतीति ह
त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः
न मामर्हसि कल्याणि अन्यथा गन्तुमङ्गने
गुरोर्गरुतरी त्वं मे मम वंशवर्धिनी
उर्वशी
अनावृता वयं सर्वा देववारा वराङ्गनाः
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि
पितरस्सोदराः पुत्रा नप्तारो वा मता इह
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः
तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि
हृच्छयेन सुसम्प्राप्तां भक्तां च भज माऽनघ
अर्जुनः
शृणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः
यथा कुन्ती च माद्री च शची चैव समा इह
तथा स्ववंशजननी त्वं हि मेऽद्य गरीयसी
गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते वरवर्णिनि
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया
वैशम्पायनः
ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता
वेपन्ती भ्रुकुटीः कृत्वा शशापाथ धनञ्जयम्
उर्वशी
तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम्
यस्मान्मां नाभिनन्देथाः कामबाणवशं गताम्
तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः
अपुंस्त्वेन च विख्यातः षण्ढवद्विचरिष्यसि
वैशम्पायनः
एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यपि
पुनः प्रत्यागता शीघ्रमुर्वशी स्वं निवेशनम्
पार्थोऽपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसत्।
विवक्षुश्चित्रसेनाय प्रातस्सर्वमहृष्टवत्
ततः प्रभाते विमले गन्धर्वस्य यथातथम्
निवेदयामास तदा चित्रसेनस्य फल्गुनः
तच्च सर्वं यथावृत्तं शापं चैव यथातथम्
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः
तदा त्वानाय्य तनयं विविक्ते हरिवाहनः
सान्त्वयित्वा शुभैर्वाक्यैस्स्मयमानोऽभ्यभाषत
इन्द्रः
सुपुत्राद्य पृथा तात त्वया पुरुषसत्तम
ऋषयोऽपि हि धैर्येण जिता वै ते महाभुज
यं च दत्तवती शापमुर्वशी तव मानद
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति
अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ
वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि
तेन नर्तकवेषेण अपुंस्त्वेन चैव हि
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि
वैशम्पायनः
एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा
मुदं परमिकां लेभे न च शापमचिन्तयत्
चित्रसेनेन सहितो गन्धर्वेण यशस्विना
रतवान् शक्रसदने पाण्डुपुत्रो धनञ्जयः
य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै
न तस्य कामः कामेषु पापकेषु प्रवर्तते
धृतिममरवरात्मजस्य घोरां परमचलां च धनञ्जयस्य श्रुत्वा
व्यपगतभयदम्भरागदोषास्त्रिदिवगता रमन्ति मानवेन्द्राः