वैशम्पायनः
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम्
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना
नन्दनं च वनं पुण्यमप्सरोगणसेवितम्
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः
नातप्ततपसा शक्यो नापि चानाहिताग्निना
स लोकः पुण्यकृतिनां नापि युद्धपराङ्मुखैः
नायज्वभिर्नानृतैर्न वेदश्रुतिवर्जितैः
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्
प्रविवेश महाबाहुश्शक्रस्य दयितां पुरीम्
तत्र देवविमानानि कामगानि सहस्रशः
स्थितान्यभिप्रयातानि ददर्शायुतशस्तदा
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः
ततो देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः
हृष्टास्सम्पूजयामासुः पार्थमक्लिष्टकारिणम्
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिःस्वनैः
प्रतिपेदे महाबाहुश्शङ्खदुन्दुभिनादितम्
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्
इन्द्राज्ञया ययौ पार्थस्स्तूयमानस्समन्ततः
तत्र साध्यास्तथा विश्वे मरुतश्चाश्विनौ तथा
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः
राजर्षयश्च तत्रासन् इक्ष्वाकुप्रमुखा नृपाः
तम्बुरुर्नारदश्चैव गन्धर्वाश्च हाहाहूहू
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः
ततोऽपश्यद्देवराजं मध्ये नाकसतां नृप
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्
ददर्श साक्षाद्देवेशं पितरं पाकशासनम्
पाण्डुरेणाऽऽतपत्रेण हेमदण्डेन चारुणा
दिव्यगन्धाधिवासेन व्यजनेन विधूयता
विश्वावसुप्रभृतिभिर्गन्धर्वैस्स्तुतिवन्दिभिः
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः
ततोऽभिगम्य कौन्तेयश्शिरसाप्राणमद्बली
स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत
ततश्शक्रासने पुण्ये देवराजर्षिसेविते
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके
मूर्धि चैनमुपाघ्राय परिरभ्य दृढं हरिः
अङ्कमारोपयामास प्रश्रयावनतं तदा
सहस्राक्षनियोगात्स पार्थश्शक्रासनं तदा
अध्यरुक्षदमेयात्मा द्वितीय इव वासवः
ततः प्रेष्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्
परिमार्जंश्च शनकैर्बाहू चास्यायतौ शुभौ
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ
वज्रग्रहणचिह्नेन करेण बलसूदनः
मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः
स्मयन्निव गुडाकेशं प्रेक्षमाणस्सहस्रदृक्
विस्मयोत्फुल्लनयनो न ततर्प च वृत्रहा
एकासनोपविष्टौ तौ शोभयाञ्चक्रतुस्सभाम्
सूर्याचन्द्रमसौ व्योम्नि पौर्णमास्यामिवोदितौ
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु
घृताची मेनका रम्भा पूर्वचित्तिस्स्वयम्प्रभा
उर्वशी मिश्रकेशी च डुण्डुर्भेरी वरूथिनी
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा
चित्रसेना चित्रलेखा सहा च मधुरस्वना
एताश्चान्याश्च ननृतुस्तत्र तत्र शुचिस्मिताः
चित्तप्रमथनार्थाय पुंसां च विधिना कृताः
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः
कटाक्षभावमाधुर्यैश्चेतोबुद्धिमनोहराः