वैशम्पायनः
गतेषु लोकपालेषु पार्थश्शत्रुनिबर्हणः
चिन्तयामास राजेन्द्र देवराजरथागमम्
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः
रथो मातलिसंयुक्त आजगाम महाप्रभः
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव
दिशस्सम्पूरयन्नादैर्महामेघरवोपमैः
असयश्शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः
तथैवाशनयस्तत्र चक्रयुक्ता हुलाहुलाः
वायुस्फोटास्सनिर्घाताश्शङ्खमेघनिभास्तथा
तत्र नागा महाकाया ज्वलितास्यास्सुदारुणाः
सिताभ्रकूटप्रतिमास्संहताश्च यथोपलाः
दशवाजिसहस्राणि हरीणां वातरंहसाम्
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्
तत्रापश्यन्महीपालो वैजयन्तं महाप्रभम्
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम्
तस्मिन्रथे स्थितं सूतं हेमजालविभूषितम्
दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत्
तथा तर्कयतस्तस्य फल्गुनस्य स मातलिः
सन्नतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत्
मातलिः
भो भो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य सम्मतम्
आह माममरश्रेष्ठः पिता तव शतक्रतुः
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः
एष शक्रः परिवृतो देवैस्सर्षिगणैस्तथा
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते
अस्माल्लोकाद्देवलोकं पाकशासनशासनात्
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि
अर्जुनः
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्
पार्थिवैस्सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः
दैवतैर्वा समारोढुं दानवैर्वा महारथम्
नातप्ततपसा शक्यो ह्येष दिव्यो महारथः
द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव तत्
त्वयि प्रतिष्ठिते साधो रथस्थे स्थितवाजिनि
पश्चादहमथाऽऽरोक्ष्ये सुकृती सत्पथं यथा
वैशम्पायनः
तस्य तद्वचनं श्रुत्वा मातलिश्शक्रसारथिः
आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतश्शुचिः
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे
अर्जुनः
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्
त्वं सदा संश्रयश्शैल स्वर्गमार्गाभिकाङ्क्षिणाम्
त्वत्प्रसादात्महाशैल ब्राह्मणाः क्षत्रिया विशः
स्वर्गं प्राप्ताश्चरन्ति स्म देवैस्सह गतव्यथाः
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः
फलानि च सुगन्धीनि भक्षितानि ततस्ततः
सुसुगन्धाश्च वार्योघास्त्वच्छरीरविनिस्सृताः
अमृतास्वादनीया मे पीताः प्रस्रवणोद्भवाः
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा
मया तवाङ्के ललितं शैलराज महाप्रभो
अप्सरोगणसङ्कीर्णे ब्रह्मघोषानुनादिते
सुखमस्म्युषितश्शैल तव सानुषु नित्यदा
वैशम्पायनः
एवमुक्त्वाऽर्जुनश्शैलमामन्त्र्य परवीरहा
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
स तेनाऽऽदित्यवर्णेन दिव्येनाद्भुतकर्मणा
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
तत्र सूर्यस्ततस्सोमो वा द्योतते नोत पावकः
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलक्षणाः
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै
आकाशे विप्रकृष्टत्वादणूनि सुमहान्त्यपि
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः
ददर्श तेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा
तत्र राजर्षयस्सिद्धा वीराश्च निहता युधि
तपसा च जितस्वर्गास्सम्पेतुश्शतसङ्घशः
गन्धर्वाणां सहस्राणि सूर्यज्वलिततेजसाम्
गुह्यकानामृषीणां च तथैवाप्सरसां गणाः
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह
मातलिः
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येषु विष्ठिताः
यान्दृष्टवानसि विभो तारारूपाणि भूतले
वैशम्पायनः
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम्
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः
ततो ददर्श शक्रस्य पुरीं ताममरावतीम्