वैशम्पायनः
पार्थस्य पश्यतश्चैव पिनाकी गोवृषध्वजः
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान्
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा
मया साक्षान्महादेवो दृष्ट इत्यसकृत् प्रभुः
धन्योऽस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः
पिनाकी वरदो रूपी दृष्टस्स्पृष्टश्च पाणिना
कृतार्थं चावगच्छामि परमात्मानमात्मना
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः
ततो वैडूर्यवर्णाभो द्योतयन्सर्वतो दिशः
यादोगणवृतश्श्रीमानाजगाम जलेश्वरः
नागैर्नदैर्नदीभिश्च दैत्यैस्साध्यैर्मरुद्गणैः
वरुणो यादसां भर्ता वशी तं देशमागमत्
अथ जाम्बूनदवपुर्विमानेन महार्चिषा
कुबेरस्समनुप्राप्तो यक्षैरनुगतः प्रभुः
विद्योतयन्निवाऽऽकाशमद्भुतोपमदर्शनः
धनानामधिपश्श्रीमानर्जुनं द्रष्टुमागतः
तथा लोकान्तकश्श्रीमान्यमः साक्षात्प्रतापवान्
मर्त्यमूर्तिधरैस्सार्धं पितृभिर्लोकपावनैः
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्
वैवस्वतो धर्मराजो विमानेनावभासयन्
त्रील्लोँकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते
भानुमन्ति विचित्राणि शिखराणि महागिरेः
समास्थायार्जुनं तत्र ददृशुस्तपसाऽन्वितम्
ततो मुहूर्ताद्भगवानैरावतशिरोगतः
आजगाम सहेन्द्राण्या शक्रस्सुरगणैर्वृतः
पाण्डुरेणाऽऽतपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे नागराजस्थस्सितमभ्रमिवाऽऽस्थितः
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः
शृङ्गं गिरेस्समासाद्य तस्थौ सूर्य इवोदितः
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः
यमः
अर्जुनार्जुन पश्यास्माल्ँलोकपालान्समागतान्
दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम्
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः
त्वया वसुषु सम्भूतो महावीर्यः पितामहः
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्
दानवाश्च महावीर्या ये मनुष्यत्वमुपागताः
निवातकवचाश्चैव संसाध्याः कुरुनन्दन
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः
कर्णस्स सुमहावीर्यस्त्वया वध्यो धनञ्जय
अंशाश्च क्षत्रतां प्राप्ता देवगन्धर्वरक्षसाम्
त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम्
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन
त्वया साक्षान्महादेवस्तोषितो हि महामृधे
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि
वैशम्पायनः
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः
समन्त्रं सोपहारं च समोक्षं सन्निवर्तनम्
ततो जलधरश्यामो वरुणो यादसां पतिः
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः
वरुणः
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः
मया समुद्यतान्पाशान्वारुणानतिदारुणान्
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान्
एभिस्तदा मया वीर सङ्ग्रामे तारकामये
दैतेयानां सहस्राणि संयतानि महात्मनाम्
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान्
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः
अनेन त्वं यदाऽस्त्रेण सङ्ग्रामे विचरिष्यसि
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः
वैशम्पायनः
ततस्तान्वारुणान्दिव्यानस्त्रानस्त्रविदां वरः
प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च
कुबेरः
सव्यसाचिन्महाबाहो पूर्वदेव सनातन
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम
ओजस्तेजोद्युतिकरं प्रस्वापनमथारिहन्
वैशम्पायनः
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः
कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्
सान्त्वयञ्श्लक्ष्णया वाचा दिव्यदुन्दुभिनिःस्वनः
इन्द्रः
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः
परां सिद्धिमनुप्राप्तस्साक्षाद्देवगतिं गतः
देवकार्यं हि सुमहत्त्वया कार्यमरिन्दम
आरोढव्यस्त्वया स्वर्गस्सज्जीभव महाद्युते
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम
तत्र तेऽहं प्रदास्यामि सर्वाण्यस्त्राणि कौरव
वैशम्पायनः
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः
ततोऽर्जुनो महाराजा लोकपालान्समागतान्
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि
ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम्
यथागतेन विबुधास्सर्वे कामं मनोजवाः
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः
कृतार्थ इति चात्मानं स मेने पूर्णमानसम्