वैशम्पायनः
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु
पिनाकपाणिर्भगवान्सर्वपापहरो हरः
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः
श्रीमद्धनुरुपादाय शरांश्चाऽऽशीविषोपमान्
निष्पपात महार्चिष्मान्दहनः कक्षवानिव
देव्या सहोमया श्रीमान्समानव्रतवेषया
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा
किरातवेषसञ्छन्नस्स्त्रीभिश्चापि सहस्रशः
अशोभत महाराज स देवोऽतीव भारत
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा
नादः प्रस्रवणानां च पक्षिणामप्युपारमत्
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः
मूकं नाम दितेः पुत्रं ददर्शाद्भुतविक्रमम्
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम्
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः
गाण्डीवं धनुरादाय शरांश्चाऽऽशीविषोपमान्
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्
अर्जुनः
यन्मां प्रार्थयसे हन्तुमनागसमिहाऽऽगतम्
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम्
वैशम्पायनः
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्
किरातरूपी सहसा वारयामास शङ्करः
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्
तौ मुक्तौ सायकौ तत्र समवेगौ निपेततुः
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा
यथाऽशनेर्विनिष्पेषो वज्रस्येव च पर्वते
तथा तयोस्सन्निपातश्शरयोरभवत्तदा
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम्
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम्
किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव
अर्जुनः
को भवानटते शून्ये वने स्त्रीगणसंवृतः
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः
कामात्परिभवाच्चापि न मे जीवन्विमोक्ष्यसे
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम्
वैशम्पायनः
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्
किरातः
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः
ममैव च प्रहारेण जीविताद्व्यपरोपितः
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः
अभियुक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्
वैशम्पायनः
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः
शरैराशीविषाकारैस्ततक्षाते परस्परम्
ततोऽर्जुनश्शरवर्षं किराते समवासृजत्
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः
स दृष्ट्वा बाणवर्षं तु मोघीभूतं धनञ्जयः
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्
अर्जुनः
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षोऽसुरेश्वरः
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः
शक्तोऽन्यस्सहितुं वेगमृते देवं पिनाकिनम्
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्
वैशम्पायनः
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः
व्यसृजच्छतधा राजन्मयूखानिव भास्करः
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा
वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम्
अर्जुनः
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्
पुरस्तादक्षयौ दत्तौ तूणौ मे येन खाण्डवे
किन्नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम्
नयामि दण्डधारस्य यमस्य सदनं प्रति
वैशम्पायनः
सम्प्रयुध्यन्धनुष्कोट्या कौन्तेयः परवीरहा
अतुलं देवमीशानं ललाटे प्रजहार च
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः
तस्य मूर्धानमासाद्य पफालासिवरोऽथ सः
ततो वृक्षैश्शिलाभिश्च योधयामास फल्गुनः
यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः
किरातरूपी भगवांस्ततः पार्थो महाबलः
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे
प्रजहार दुराधर्षे किरातसमरूपिणि
ततश्शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः
किरातरूपी भगवानर्दयामास फल्गुनम्
ततश्चटचटाशब्दः सुघोरस्समजायत
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः
सुमुहूर्तं तयोर्युद्धमासील्लोकप्रहर्षणम्
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव
महाराज ततो जिष्णुः किरातं तरसा बली
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात्
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तदा
समजायत गात्रेषु पावकोऽङ्गारधूमवान्
तत एनं महादेवः पीड्य गात्रैस्सुपीडितम्
तेजसाऽत्याक्रमद्रोषाच्चेतस्तस्य विमोहयन्
ततो निष्पीडितैर्गात्रैः पिण्डीकृत इवाबभौ
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत
निरुच्छ्वासोऽभवच्चैष सन्निरुद्धो महामनाः
ततः पपात सम्मूढस्ततः प्रीतोऽभवद्धरः
सुमुहूर्तं ततो भूत्वा सचेताः पुनरुत्थितः
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्
मृण्मयं स्थण्डिले कृत्वा माल्येनापूजयद्भवम्
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः
श्रीमहेश्वरः
भो भो फल्गुन तुष्टोऽस्मि कर्मणाऽप्रतिमेन ते
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः
समं तेजश्च वीर्यं च ममाद्य तव चानघ
प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान्
विजेष्यसि रणे शत्रूनपि देवान्दिवौकसः
वैशम्पायनः
ततो देवं महादेवं गिरिशं शूलपाणिनम्
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम्
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च
प्रसादयामास हरं पार्थः परपुरञ्जयः
अर्जुनः
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर
भगवद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम्
दयितं तव देवेश तापसालयमुत्तमम्
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम्
न मे स्यादपराधोऽयं महादेवातिसाहसात्
कृतो मया यदज्ञानाद्विमर्दो यस्त्वया सह
शरणं मे प्रपन्नाय तत्क्षमस्वाद्य शङ्कर
वैशम्पायनः
तमुवाच महातेजाः प्रहस्य वृषभध्वजः
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम्
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः
गङ्गाङ्कितजटश्शर्वः पार्थस्यामिततेजसः
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम्
श्रीमहेश्वरः
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून्
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत्
शक्राभिषेके सुमहद्धनुर्जलदनिस्स्वनम्
प्रगृह्य दानवाश्शस्तास्त्वया कृष्णेन च प्रभो
एतत्तदेव गाण्डीवं तव पार्थ करोचितम्
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ
भविष्यति शरीरं च नीरुजं कुरुनन्दन
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिन्दम
अर्जुनः
भवान् ददाति चेन्मह्यं कामं प्रीत्या वृषध्वज
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्
जयेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा
राज्ञश्चैव पिशाचांश्च गन्धर्वानथ पन्नगान्
यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः
शराश्चाशीविषाकारास्सम्भवन्त्यनुमन्त्रिताः
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा
एष मे प्रथमः कामो भगवन्भगनेत्रहन्
त्वत्प्रसादाद्विनिर्वृत्तस्समर्थस्स्यामहं यथा
श्रीमहेश्वरः
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो
समर्थो धारणे मोक्षे संहारे चासि पाण्डव
न तद्वेद महेन्द्रोऽपि न यमो न च यक्षराट्
वरुणो वाऽथवा वायुः कुतो वेत्स्यन्ति मानवाः
न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम्
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे
मनसा चक्षुषा वाचा धनुषा च निपात्यते
वैशम्पायनः
तच्छ्रुत्वा सहसा पार्थश्शुचिर्भूत्वा समाहितः
उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत्
ततस्त्वध्यापयामास सरहस्यनिवर्तनम्
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
ससागरवनोद्देशा सग्रामनगराकरा
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत्
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः
स्पृष्टस्य च त्र्यम्बकेण फल्गुनस्यामितौजसः
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमीयिवत्
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तथाऽर्जुनः
प्रणम्य शिरसा राजन्प्राञ्जलिर्हरमैक्षत
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिश्शिवः
धनुर्महद्दितिजपिशाचसूदनं ददौ पुनः पुरुषवराय गाण्डिवम्
ततश्शुभं गिरिवरमीश्वरस्तदा सहोमयाऽसिततटसानुकन्दरम्
विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यतः