वैशम्पायनः
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः
संस्मृत्य मुनिसन्देशमिदं वचनमब्रवीत्
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभम्
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्
स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः
धनञ्जयं धर्मराजो रहसीदमुवाच ह
युधिष्ठिरः
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः
ब्राह्मं दैवं चासुरं च सप्रयोगचिकित्सितम्
सर्वास्त्राणां प्रयोगं च ते विजानन्ति कृत्स्नशः
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा
अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः
त्वयि व्यपाश्रयोऽस्माकं त्वयि भारस्समाहितः
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया
गृहीतया तया सम्यक्जगत्सर्वं प्रकाशते
तेन त्वं ब्रह्मणा तात संयुक्तस्सुसमाहितः
देवतानां यथाकालं प्रसादं प्रतिपालय
तपसा योजयाऽऽत्मानमुग्रेण भरतर्षभ
धनुष्मान्कवची खड्गी मुनिस्सारसमन्वितः
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्
इन्द्रे ह्यस्त्राणि सर्वाणि समस्तानि धनञ्जय
वृत्राद्भीतैः पुरा देवैस्तदा शक्रे समर्पितम्
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे
अनेन ब्रह्मणा तात सर्वं सम्प्रतिपद्यते
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम्
वैशम्पायनः
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः
दीक्षितं विधिना तेन यतवाक्कायमानसम्
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरन्दरम्
धनुर्गाण्डीवमादाय तथाऽक्षय्यौ महेषुधी
कवची सतलत्राणः खड्गगोधाङ्गुलित्रवान्
हुताग्निर्ब्राह्मणान्निष्कैस्स्वस्ति वाच्य महाभुजः
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्
अब्रुवन्ब्राह्मणास्सिद्धा भूतान्यन्तर्हितानि च
सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन्
सिद्धचारणादयः
स्वस्ति व्रतं समाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ
वैशम्पायनः
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा
तपोयोगमनाः पार्थः पुरोहितमवन्दत
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ
सङ्क्लान्तमनसौ तूर्णमभिगम्य महारथौ
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्
यमौ
अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्
अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि
गिरो ह्यशिथिलास्सर्वा निर्दोषास्सम्मतास्सताम्
त्वमेकः पाण्डवेष्वद्य सम्प्राप्तोऽसि धनञ्जय
न चाधर्मविदं देवा नासिद्धं नातपस्विनम्
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः
शठकश्श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता
विश्वस्तहन्ता मायावी क्रोधनोऽनृतभाषिता
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वकर्कशः
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः
सम्भावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय
आनृशंस्यमनुक्रोशस्सत्यं करुणवेदिता
दमस्स्थितिर्धृतिर्धर्मः क्षमा रूपमनुत्तमम्
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता
मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिस्स्मृतिः
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय
त्वादृशेन हि देवानां श्लाघनीयस्समागमः
सुहृदां सोदराणां च सर्वेषां भरतर्षभ
त्वं गतिः परमा तात वृत्रहा मरुतामिव
तस्मिंस्त्रयोदशे वर्षे भ्रातरस्सुहृदश्च ते
सर्वे हि संश्रयिष्यन्ति बाहुवीर्यं महाबल
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दमम्
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात्
शतशृङ्गे महाबाहो मघवानिदमब्रवीत्
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि
विदितस्सर्वभूतानां दिवं तात गमिष्यसि
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतां वर
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि
अवाप्य परमास्त्राणि पृथिवीं पुनरेष्यसि
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि
शृण्वतां सर्वभूतानां पुनः पुनरभाषत
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्
कञ्चिद्देशमितः प्राप्य तपोयोगमना भव
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टासि त्वं पुरन्दरम्
वैशम्पायनः
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाभि भो
अभ्यवादयत प्रीतस्तपस्विप्रवरानपि
मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः
तं सिंहमिव गच्छन्तं सिंहस्कन्धोरसं तदा
प्राञ्जलिः पाण्डवं कृष्णा देवानां कुर्वती नमः
द्रौपदी
वाग्भिः परमशक्ताभिर्मङ्गलाभिरभाषत
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्
धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः
प्रपद्येथा वसून्रुद्रानादित्यान्समरुद्गणान्
विश्वेदेवांस्तथाऽऽदित्याञ्शान्त्यर्थं भरतर्षभ
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः
अवरोधाद्वने वासात्सर्वस्वहरणादपि
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात्
मास्माकं क्षत्रियकुले जातुचित्पुनराभवम्
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका
ध्वंसितस्स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ
वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे
जेता यस्सर्वशत्रूणां यः पावकमतर्पयत्
जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ
अस्मिन्नूनं महारण्ये भ्रातरस्सुहृदश्च ते
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा
यत्तत् कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय
तत्ते सर्वं तथैवास्तु यथा च मनसेच्छसि
वसुदेवस्वसा देवी त्वामार्या पुनरागतम्
सा पश्यतु पृथा पार्थ सहस्राक्षमिवादितिः
नूनं ते भ्रातरस्सर्वे त्वत्कथाभिः प्रजागरे
रंस्यन्ते तव कर्माणि कीर्तयन्तः पुनः पुनः
नैव नः पार्थ भोगेषु न धने नोत जीविते
तुष्टा बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि
आशा सञ्जायते वीर त्वय्यरण्यं प्रपद्यति
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते
जीवितं मरणं चैव स्वर्गोऽथ नरकस्तथा
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
वैशम्पायनः
प्रदक्षिणं पुनः कृत्वा भ्रातॄन्धौम्यं च पाण्डवः
प्रातिष्ठत महाबाहुस्सुमनाः प्रीतिमांस्तदा
शनैरिव दिशं वीर उदीचीं भरतर्षभ
संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत
असज्जमानो वृक्षेषु जगाम सुमहाबलः
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः
सोऽगच्छत्पर्वतं पुण्यमेकाह्ना सुमहामनाः
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः
हिमवन्तमतिक्रम्य गन्धमादनमेव च
अत्यक्रामत्सुदुर्गाणि दिवारात्रमनिन्दितः
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः
अन्तरिक्षे स शुश्राव तिष्ठेति च वचस्तदा
गत्वा स षडहोरात्रान्सप्तमेऽहनि पार्थिवः
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किञ्चन
समाहितात्मा नियतः सहस्राक्षसुतोऽर्जुनः
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः
तपस्वी
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्
नेहास्ति धनुषा कार्यं न सङ्ग्रामोऽत्र कर्हिचित्
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम्
वैशम्पायनः
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्
तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्
न चैनं चालयामास धैर्यात्सुदृढनिश्चयम्
तमुवाच ततः प्रीतस्स द्विजः प्रहसन्निव
तपस्वी
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन
वैशम्पायनः
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः
अर्जुनः
वैशम्पायनः
ईप्सितो ह्येष वै कामो वरं चैव प्रयच्छ मे
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव
इन्द्रः
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम्
वैशम्पायनः
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः
अर्जुनः
न लोकान्न पुनः कामान्न देवत्वं कुतस्सुखम्
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीस्समाः
वैशम्पायनः
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः
इन्द्रः
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः
दर्शनात्तस्य कौन्तेय संसिद्धस्स्वर्गमेष्यसि
वैशम्पायनः
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः