वैशम्पायनः
भीमसेनवचश्श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
निःश्वस्य पुरुषव्याघ्रस्सम्प्रदध्यौ परन्तपः
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक्
आयत्यां च तदात्वे च यः पश्यति स पश्यति
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्
कथं बलात्करिष्यामि मेरोरिव विवर्तनम्
सुमुहूर्तमिति ध्यात्वा विनिश्चित्येतिकृत्यताम्
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्
युधिष्ठिरः
एवमेतन्महाबाहो यथा वदसि भारत
इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद
महापापानि कर्माणि यानि केवलसाहसात्
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते
सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितस्स्वयम्
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे
भूरिश्रवाश्शलश्चैव जलसन्धश्च वीर्यवान्
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः
सर्व एव कृतास्त्राश्च सततं चाततायिनः
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः
ते श्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम्
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः
दुर्योधनेन ते वीरा मानिताश्च विशेषतः
प्राणांस्त्यक्ष्यन्ति सङ्ग्राम इति मे निश्चिता मतिः
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च
द्रोणस्य च महाबाहो कृपस्य च महात्मनः
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान्
सर्वे दिव्यास्त्रविदुषस्सर्वे धर्मपरायणाः
अजेयाश्चेति मे बुद्धिरपि देवैस्सवासवैः
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः
सर्वास्त्रविदनाधृष्यस्त्वभेद्यकवचावृतः
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान्
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया
न निद्रामधिगच्छामि चिन्तयामि वृकोदर
अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम्
वैशम्पायनः
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः
बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः
तयोस्संवदतोरेवं तदा राजन्ययोर्द्वयोः
आजगाम महायोगी व्यासस्सत्यवतीसुतः
सोऽभिगम्य यथान्यायं पाण्डवैरभिपूजितः
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः
व्यासः
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम्
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत
दुर्योधनान्नृपसुतात्तथा दुश्शासनादपि
यत्ते भयममित्रघ्न हृदि सम्परिवर्तते
तत्ते प्रशमयिष्यामि विधिदृष्टेन हेतुना
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय
वैशम्पायनः
तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम्
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः
व्यासः
श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते
यामवाप्य महाबाहुरर्जुनस्साधयिष्यति
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु
वरुणं च धनेशं च धर्मराजं च पाण्डव
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च
ऋषिरेव मेहातेजा नारायणसहायवान्
पुराणश्शाश्वतो देवो विष्णोरंशस्सनातनः
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च
समादाय महाबाहुर्महत्कर्म करिष्यति
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्
निवासार्थं तु यद्युक्तं भवेद्वः पृथिवीपते
एकत्र चिरवासो हि न प्रीतिजननो भवेत्
तापसानां च शान्तानां भवेदुद्वेगकारकः
मृगाणामुपरोधश्च वीरुदोषधिसङ्क्षयः
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान्
वैशम्पायनः
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः
प्रोवाच योगतत्त्वज्ञो योगी विद्यामनुत्तमाम्
धर्मराजं तथा धीमान् व्यासस्सत्यवतीसुतः
अनुज्ञाप्य च कौन्तेयं तत्रैवान्तरधीयत
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः
धारयामास मेधावी काले काले सदाऽभ्यसन्
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः
ययौ सरस्वतीकूले काम्यकं काननं महत्
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ
न्यविशन्त महात्मानस्सामान्यास्सपदानुगाः
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः
धनुर्वेदपरा वीराश्शृणाना वेदमुत्तमम्
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि