युधिष्ठिरः
असंशयं भारत सत्यमेतद्यन्मां तुदन्वाक्यशरैः क्षिणोषि
न त्वां विगर्हे प्रतिकूलमेतन्ममाऽऽनयाद्धि व्यसनं व आगात्
अहं ह्यक्षानन्वपद्ये जिहीर्षन् राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्
तन्मां शठः कितवः प्रत्यदेवीत्सुयोधनार्थं सुबलस्य पुत्रः
महामायश्शकुनिः पार्वतीयः सदा सदा प्रवपन्नक्षपूगान्
अमायिनं मायया प्रत्यदेवीत्ततोऽपश्यं वृजिनं भीमसेन
अक्षांस्तु दृष्ट्वा शकुनेर्यथावत्कामानुलोमानयुजो युजश्च
शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्ति पुरुषस्य धैर्यम्
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः
न ते वाचं भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत्
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन्
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः
त्वं चापि तद्वेत्थ धनञ्जयश्च पुनर्द्यूतायाऽऽगतानां सभां नः
यन्माऽब्रवीद्धृतराष्ट्रस्य पुत्र एवं ग्लहार्थं भरतानां समक्षम्
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो
अथापरं चाविदितश्चरेथास्सहैतया भ्रातृभिश्छन्नरूपः
तं चेत्तीर्त्वा तात तथा चरन्तमवबोध्यन्ते भारतानां चरा वै
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं निश्चित्य तत्प्रतिजानीहि पार्थ
चारैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान्
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः
वयं चैवं कौरवास्सर्व एव त्वया जिताः कालमपास्य भोगान्
चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति
तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश्च सर्वे
इत्थं तु देशाननुसञ्चरामो वनानि दुर्गाणि च घोररूपान्
सुयोधनश्चापि न शान्तिमृच्छन् भूयश्च मन्योर्वशमन्वगच्छत्
उद्योजयामास कुरूंश्च सर्वान् ये चास्य केचिद्वशमन्वगच्छन्
तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह कस्य हेतोः
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशिष्यात्
तथैव चेद्वीर तथा करिष्ये यदा द्यूते परिघं पर्यमृक्षः
बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतं भीम तदाऽकरिष्यत्
प्रागेव चैवं समयक्रियायाः किं नाब्रवीत्पौरुषं मां विजानन्
प्राप्तं तु कालं त्वतिपात्य पश्चात्किं वा त्विदानीमतिवेलमात्थ
भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं विदित्वा
यद्याज्ञसेनीं परिकृष्यमाणां सन्दृश्य तत्क्षान्तमिति स्म भीम
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये
कालं प्रतीक्षस्व सुखोदयस्य पङ्क्तिं फलानामिव बीजवापः
यदा हि पूर्वं निकृतो निकृत्या वैरं सपुष्पं सफलं विदित्वा
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवस्सन्नमन्ति
मित्राणि चैनमतिरागाद्भजन्ते देवा इवेन्द्रमुपजीवन्ति चैनम्
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति