द्रौपदी
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव
पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नाऽऽर्जवेन च
पुरुषश्श्रियमाप्नोति निर्घृणित्वेन कर्हिचित्
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्
स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादपि
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः
भीमसेनार्जुनौ चेमौ माद्रेयौ च मया सह
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते
बुद्धिस्सततमन्वेति छायेव पुरुषं निजा
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः
अवाप्य पृथिवीं सर्वां न ते शृङ्गमवर्धत
स्वाहाकारैस्स्वधाभिश्च पूजाभिरपि च द्विजान्
देवताश्च पितॄंश्चैव सततं पार्थ सेवसे
ब्राह्मणास्सर्वकामैस्ते सततं पार्थ तर्पिताः
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत
आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चिन्न विद्यते
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते
तद्दत्त्वाऽतिथिभृत्येभ्यो राजञ्छेषेण जीवसि
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये
वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ
अस्मिन्नपि महारण्ये विजने दस्युसेविते
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः
इष्टास्त्वया महायज्ञा बहवोऽन्ये सदक्षिणाः
राजन्परीतया बुद्ध्या विषमाक्षपराजये
पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः
ऋजोर्मृदोर्वदान्यस्य धीमतस्सत्यवादिनः
कथमक्षव्यसनजा बुद्धिरापतिता तव
अतीव मोह आयाति मनश्च परिदूयते
निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
यथा दारुमयीं योषां नरो धीरस्समाहितः
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः
आकाश इव भूतानि व्याप्य सर्वाणि भारत
ईश्वरो विदधातीह कल्याणं यच्च पापकम्
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः
ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः
धातुरादेशमन्वेति तन्मयो हि तदर्पणम्
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन
स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः
अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः
धातुरेवं वशं यान्ति सर्वभूतानि भारत
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः
व्याप्य भूतानि चरते न चायमिति लक्ष्यते
हेतुमात्रमिदं धातुश्शरीरं क्षेत्रसञ्ज्ञितम्
येन कारयते कर्म शुभाशुभफलं विभुः
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः
यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि हि
अन्यथैव प्रभुस्तानि करोति विकरोति च
यथा काष्ठेन वा काष्ठमश्म वा चाश्मना पुनः
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्
एवं स भगवान्देवस्स्वयम्भूः प्रपितामहः
निहन्ति भूतैर्भूतानि जन्म कृत्वा युधिष्ठिर
सम्प्रयोज्य वियोज्याथ कामकारकरः प्रभुः
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव
न मातृपितृवद्राजन्धाता भूतेषु वर्तते
रोषादिव प्रयुक्तोऽयं यथाऽयमितरो जनः
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान्
अनार्यान्सुखिनश्चैव विह्वलामीति चिन्तये
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने
धातारं गर्हये पार्थ विषमं योऽनुपश्यति
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति
कारणं बलमेवेह जानञ्शोचामि दुर्बलान्