युधिष्ठिरः
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता नृणाम्
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ
यो न संहरते क्रोधं तस्याभावो भवत्युत
अभावकारणं तस्मात्क्रोधो भवति शोभने
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे
तस्याभावाय भवति क्रोधः परमदारुणः
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्सम्पूजयेदपि
आत्मानमपि वा क्रुद्धः प्रेषयेद्यमसादनम्
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्
तं क्रोधं निर्जितं धीरैः कथमस्मद्विधश्चरेत्
एतद्द्रौपदि संस्मृत्य न मे मन्युः प्रवर्धते
आत्मानं च परं चैव त्रायते महतो भयात्
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेव चिकित्सकः
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः
तस्याऽऽत्मानं परित्यज्य लोका नश्यन्त्यनात्मनः
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्
विद्वांस्तथैव यश्शक्तः क्लिश्यमानः प्रकुप्यति
स नाशयित्वा द्वेष्टारं परलोके न नन्दति
तस्माद्बलवता चैव दुर्बलेन च नित्यदा
क्षन्तव्यं पुरुषेणाऽऽहुरापत्स्वपि विजानता
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
क्षमावतो जयो नित्यं साधोरिह सतां मतम्
सत्यं चानृततश्श्रेयो नृशंसाच्चानृशंसता
तमेवं बहुदोषं तु क्रोधं सद्भिर्विवर्जितम्
मादृशो विसृजेत्कस्मात्सर्वलोकविनाशनम्
तेजस्विनं यमाहुर्हि पण्डिता दीर्घदर्शिनः
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्
यस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते
तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः
दाक्ष्यं ह्यमर्षश्शौर्यं च शीघ्रत्वमतितेजसः
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते
कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजस्सुदुर्लभम्
क्रोधस्त्वपण्डितैश्शश्वत्तेज इत्यभिधीयते
रजस्तु लोकनाशाय विहितं मानुषान्प्रति
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषस्सम्यगाचरन्
श्रेयान्स्वधर्मानुवशो न क्रुद्ध इति निश्चितम्
यदि सर्वमबुद्धानामतिक्रान्तममेधसाम्
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्
आक्रुष्टः पुरुषस्सर्वान् प्रत्याक्रोशेदनन्तरम्
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः
हन्युश्च पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते
प्रजानां सन्धिमूलं हि जन्म विद्धि शुचिस्मिते
ताः क्षीयेरन्प्रजास्सर्वाः क्षिप्रं द्रौपदि तादृशाः
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च
तस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः
प्रभाववानपि नरस्तस्य लोकास्सनातनाः
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्
यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत्
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति तान्
अति ब्रह्मविदां लोकानति चापि तपस्विनाम्
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत्
यत्र ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः
इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा
क्षन्तव्यमेव सततं पुरुषेण विजानता
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा
क्षमावतामयं लोकः परश्चैव क्षमावताम्
इह सन्मानमृच्छन्ति परत्र च परां गतिम्
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतस्सदा
तेषां परतरो लोकस्तस्मात्क्षान्तिः परा मता
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्
श्रुत्वा गाथाः क्षमायास्तु तुष्य द्रौपदि मा क्रुधः
पितामहश्शान्तनवश्शमं सम्पूजयिष्यति
कृष्णश्च देवकीपुत्रश्शमं सम्पूजयिष्यति
आचार्यो विदुरश्चैव पौरवृद्धास्तथैव च
कृपश्च सञ्जयश्चैव शममेव वदिष्यति
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च
पितामहश्च नो व्यासश्शमं वदति नित्यशः
एतैर्हि राजा नियतं चोद्यमानश्शमं प्रति
आदास्यतेति मे बुद्धिर्न चेल्लोभान्नशिष्यति
कालोऽयं दारुणः प्राप्तो भरतानामभूतये
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि
सुयोधनो नार्हतीति क्षमा मामेव विन्दति
अर्हस्तस्याहमित्येवं तस्मान्मां विन्दते क्षमा
एतदात्मवतां वृत्तमेष धर्मस्सनातनः
क्षमा चैवाऽऽनृशंस्यं च तत्कर्ता ह्यहमञ्जसा