द्रौपदी
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च
असुरेन्द्रं महात्मानं धर्माणामागतागमम्
बलिः पप्रच्छ दैत्येन्द्रः प्रह्लादं पितरं पितुः
बलिः
क्षमा वा श्रेयसी तात तेजो वाऽसुरसत्तम
एतन्मे संशयस्तात तथा त्वं ब्रूहि पृच्छतः
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्
करिष्यामि हि तत्सर्वं यथावदनुशासनम्
द्रौपदी
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते
प्रह्लादः
न श्रेयस्सततं तेजो न नित्यं श्रेयसी क्षमा
इति तात विजानीहि द्वयमेतदसंशयम्
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता
अवज्ञाय च तं भृत्या भजन्ते बहुदोषतः
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च
भोजनान्यथ पानानि सर्वोपकरणानि च
आददीरन्नधिकृता यथाकाममचेतसः
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन
अवज्ञातं हि लोकेऽस्मिन्मरणादपि गर्हितम्
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि
प्रेष्याः भृत्याश्च पुत्राश्च तथोदासीनवृत्तयः
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः
तथा च नित्यमुदिता यदि वाऽल्पामपीश्वरात्
हानिमिष्यन्ति दुष्यन्ति स्वामिनश्चापकुर्वते
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्
अस्थाने ह्यपि च स्थाने सततं चानुगामिनम्
क्रुद्धो दण्डान्प्रणयति विविधांस्तेजसावृतः
मित्रैस्सह विरोधं च यो नित्यं तेजसाऽऽवृतः
प्राप्नोति द्वेष्यतां लोके भृत्यात्स्वजनतस्तथा
सोऽवमानार्थलोपौ च वाच्यतामेष्यतीति च
सन्तापलोभमोहांश्च शत्रूंश्च लभते नरः
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयन्
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यस्स्वजनादपि
सोऽपकर्तॄंश्च शत्रूंश्च तेजसैवोपगच्छति
तस्मादुद्विजते लोकस्सर्पाद्वेश्मगतादिव
यस्मादुद्विजते लोकः कथं तस्य रतिर्भवेत्
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्
काले मृदुर्यो भवति काले भवति दारुणः
स वै सुखमवाप्नोति लोकेऽस्मिंश्च परत्र च
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण वै
एते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि
उपकारेण तत्तस्य क्षन्तव्यमपराधिनाम्
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषैरिह
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्
पापे त्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून्
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्
अजानता भवेत्कश्चिदपराधः कृतो यदि
क्षन्तव्यमेव तद्ध्याहुस्सुपरीक्ष्य परीक्षकाः
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम्
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः
अन्वीक्ष्य कारणं चैव कार्यं तेजः क्षमाऽपि वा
नादेशकाले किञ्चित्स्याद्देशकालः परीक्ष्यते
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम्
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते
द्रौपदी
तदहं तेजसः कालं तव मन्ये नराधिप
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः
काले प्राप्ते द्वयं ह्येतद्यो वेत्ति स महीपतिः