वैशम्पायनः
ततो वनङ्गताः पार्थास्सायाह्ने सह कृष्णया
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः
प्रिया च दर्शनीया च पण्डिता च पतिव्रता
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत्
द्रौपदी
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्
भ्रातृभिश्च तदा सर्वैर्नाभ्यभाषत किञ्चन
वनं प्रस्थाप्य दुर्मेधा नान्वतप्यत दुर्मतिः
आयसं हृदयं नूनं तस्यासीत् क्रूरकर्मणः
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः
ईदृशं दुःखमानीय मोदते पापपूरुषः
चतुर्णामेव पापानामश्रु वै नाशितं तदा
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःशासनस्य च
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम
दुःखेनापि परीतानां नेत्रेभ्यः प्रापतज्जलम्
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्
शोचामि त्वां महाराज दृष्ट्वा भूतलशायिनम्
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्
दृष्ट्वा कुशबृसीं चेमां शोको मां दारयत्ययम्
यदपश्यं सभायां त्वां राजभिः परिवारितम्
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे
या त्वां स्रक्चन्दनादिग्धमपश्यं सूर्यवर्चसम्
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत
या त्वाऽहं कौशिकैर्वस्त्रैश्शुभ्रैर्बहुविधैः पुरा
दृष्टवत्यस्मि राजेन्द्र सा त्वा पश्यामि चीरिणम्
यच्च ते रुक्मपात्रीभिर्ब्राह्मणेभ्यस्सहस्रशः
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्
यतीनामगृहाणां ते तथैव गृहमेधिनाम्
दीनानां भोजनं राजन्नतीव गुणवत्प्रभो
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः
अभोजयंश्च मृष्टान्नैस्सूदाः परमसंस्कृतैः
सर्वांस्तानद्य पश्यन्त्या वने वन्येन जीवतः
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः
भीमसेनमिमं चापि दुःखितं वनवासिनम्
ध्यायन्तं किं नु मन्युस्ते प्राप्ते काले न वर्धते
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्
सुखार्हमसुखं दृष्ट्वा कस्माद्राजन्नुपेक्षसे
सत्कृतं विविधैर्धान्यैर्वस्त्रैरुच्चावचैस्तथा
तं तं वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
कुरूनपीह यस्सर्वान्हन्तुमुत्सहते प्रभुः
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
शरातिसर्गे शीघ्रास्त्रे कालान्तकयमोपमः
यस्य शस्त्रप्रतापेन प्रणतास्सर्वपार्थिवाः
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्
न च ते वर्धते मन्युस्तेन मुह्यामि भारत
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः
प्रसह्य वित्तं गृह्णीयात्पार्थिवानां परन्तपः
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
दृष्ट्वा वनगतान्पार्थानदुःखार्हान् सुखोचितान्
न च ते वर्धते मन्युस्तेन मुह्यामि भारत
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते
नूनं च तव नैवास्ति मन्युर्भरतसत्तम
त्यक्तवांस्त्वं विनाशाय त्यक्ता भृगुपतिर्यथा
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्
यो न दर्शयते तेजः क्षत्रियः काल आगते
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत
न त्वया तु क्षमा कार्या शत्रून्प्रति कथञ्चन
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति
अप्रियस्सर्वभूतानां सोऽमुत्रेह विनश्यति