वैशम्पायनः
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु
अनुकीर्णं महारण्यं ब्राह्मणैस्समपद्यत
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः
यजुषामृचां साम्नां च गद्यानां चैव भारत
आसीदुच्चार्यमाणानां निःस्वनो हृदयङ्गमः
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम्
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यवर्धत
अथाब्रवीद्बकोऽभ्येत्य धर्मराजं युधिष्ठिरम्
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम्
दाल्भ्यः
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम्
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता महाव्रताः
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैस्सह
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः
सर्वस्य जगतश्श्रेष्ठा ब्राह्मणास्सम्मतास्त्वया
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम
भ्रातृभिस्सह कौन्तेय यत्त्वां वक्ष्यामि कौरव
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह
उदीर्णौ दहतश्शत्रून्वनानीवाग्निमारुतौ
नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम्
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं हन्ति नृपस्सपत्नान्
चरन्निःश्रेयसं धर्मं प्रजापालनकारितम्
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात्
अनूनमासीदसुरस्य राजन्वैरोचनेश्श्रीरतिकाङ्क्षिताय
लब्ध्वा महीं ब्राह्मणसम्प्रयोगात्तेषां चरन्दुःखमतो व्यनश्यत्
नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणश्शास्ति नयैर्विनीतम्
कुञ्जरस्येव सङ्ग्रामे परिगृह्याङ्कुशग्रहम्
ब्रह्मणा विप्रहीनस्य क्षत्रस्य क्षीयते बलम्
ब्राह्मणोऽप्रतिमा दृष्टिः क्षात्रस्याप्रतिमं बलम्
तौ यदा चरतस्सार्धं तदा लोकः प्रसीदति
यथा हि सुमहानग्निः कक्षं दहति सानिलः
तथा दहति राजन्यो ब्राह्मणेन सहारिषु
ब्राह्मणो ह्येष मेधावी बुद्धिपर्येषणं चरेत्
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये
अलब्धलाभाय च लब्धवृद्धये यथाऽर्हतीर्थप्रतिपादनाय
यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासयेत्
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः
वैशम्पायनः
ततस्ते ब्राह्मणास्सर्वे बकं दाल्भ्यमपूजयन्
युधिष्ठिरे स्तूयमाने पुनस्सुमनसोऽभवन्
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः
इन्द्रद्युम्नोद्दालुकिश्च कृतचेतास्सहस्रपात्
लवणाश्वश्च कण्वश्च काश्यपश्च महातपाः
हारीतस्स्थूलकर्णश्च अग्निवेश्योऽथ कौशिकः
जितवाक्च सुवाक्चैव बृहदश्व ऋतावसुः
ऊर्ध्वरेता देवमित्रस्सुहोत्रो होत्रवाहनः
एते चान्ये च बहवो ब्राह्मणास्संशितव्रताः
अजातशत्रुमर्चन्तः पुरन्दरमिवर्षयः