वैशम्पायनः
तत्काननं प्राप्य नरेन्द्रपुत्रास्सुखोचिता दुःखमुपेत्य कृच्छ्रम्
विजह्रुरिन्द्रप्रतिमप्रकाशाः भागीरथी सालवनेषु तेषु
यतींश्च सर्वान् स मुनींश्च राजा तस्मिन्वने मूलफलैरुदग्रैः
द्विजातिमुख्यानृषभः कुरूणां सन्तर्पयामास महानुभावः
इष्टीश्च पित्र्याणि तथा गृहाणि तस्मिन्वने वसतां पाण्डवानाम्
पुरोहितस्सर्वसमृद्धतेजाश्चकार धौम्यः पितृवन्महात्मा
अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयश्श्रीमतां पाण्डवानाम्
स सर्वविद्द्रौपदीं वीक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च
संस्मृत्य रामं मनसा महात्मा तपस्विमध्ये स्मयते महौजाः
तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनो माम्
भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य
मार्कण्डेयः
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः
तवाऽऽपदं तात समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात्
धन्वी चरन्पार्थ पुरा मयैव दृष्टो गिरेः ऋष्यमूकस्य सानौ
सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता
पितुर्निदेशादनघस्स्वधर्मं चरन्वने दाशरथिश्चकार
स चापि शक्रस्य समप्रभावो महानुभावस्समरेष्वजेयः
विहाय भोगान्विचरन्वनेषु नेशे बलस्येति चरेदधर्मम्
नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य
सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम्
अलर्कमाहुर्नरदेववर्यं सत्यव्रतं काशिकरूशराजम्
विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम्
धात्रा विधिर्यो विहितः पुराणास्तं पूजयन्तो नरवर्य सन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम्
महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र
स्थितान्निदेशे बलिनश्च सर्वान्नेशे बलस्येति चरेदधर्मम्
सत्येन धर्मेण यथानुवृत्त्या श्रिया वृतस्सर्वभूतान्यतीत्य
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य
ततश्श्रियं तेजसा तेन दीप्तामादास्यसे पार्थिव कौरेवभ्यः
वैशम्पायनः
तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्धिः
सम्मन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः