वैशम्पायनः
ततस्तेषु प्रयातेषु कौन्तेयस्सत्यसङ्गरः
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः
युधिष्ठिरः
द्वादशेमानि वर्षाणि वस्तव्यं निर्जने वने
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्
यत्रेमा द्वादश समास्सुखं प्रतिवसेमहि
वैशम्पायनः
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः
गुरुवन्मानववरं मानयित्वा मनस्विनम्
अर्जुनः
भवानेव महर्षीणां वृद्धानां पर्युपासिता
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः
द्वैपायनप्रभृतयो नारदश्च महातपाः
यस्सर्वलोकद्वाराणि नित्यं सञ्चरते वशी
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि
अनुभावांश्च जानासि ब्राह्मणानां न संशयः
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव
त्वमेव राजञ्जानासि श्रेयः कारणमेव च
यत्रेच्छसि महाराज निवासं तत्र कुर्महे
इदं द्वैतवनं नाम सरः पुण्यजनोचितम्
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्
अत्रेमा द्वादश समा विहरेमेति रोचये
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान्
युधिष्ठिरः
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः
वैशम्पायनः
ततस्ते प्रययुस्सर्वे पाण्डवा धर्मचारिणः
ब्राह्मणैर्बहुभिस्सार्धं पुण्यं द्वैतवनं सरः
ब्राह्मणास्साग्निहोत्राश्च तथैव च निरग्नयः
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्
तपस्विनस्सत्यशीलाश्शतशस्संशितव्रताः
ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिस्सह
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः
तत्सालतालाम्रमधूकनीपकदम्बसर्जार्जुनकर्णिकारैः
तपात्यये पुष्पफलैरुपेतं महद्वनं राष्ट्रपतिर्ददर्श
महाद्रुमाणां शिखरेषु तस्थुर्मनोरमा वाच उदीरयन्तः
मयूरनत्यूहचकोरसङ्घास्तस्मिन्वने कोकिलशारिकाश्च
करेणुयूथैस्सह यूथपानां मदोत्कटानामचलप्रभाणाम्
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श
मनोरमां भोगवतीं समेत्य धृतात्मनां चीरजटाधराणाम्
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्
ततस्स यानादवरुह्य राजा सभ्रातृकस्सजनः काननं तत्
विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः
तं सत्यसन्धं सहिता निपेतुर्दिदृक्षवश्चारणसिद्धसङ्घाः
वनौकसश्चापि नरेन्द्रसिंहं मनस्विनस्सम्परिवार्य तस्थुः
स तत्र सर्वानभिवाद्य वृद्धान् प्रत्यर्चितो राजवद्देववच्च
विवेश सर्वैस्सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः
स पुण्यशीलः पितृवन्महात्मा तपस्विभिधर्मपरैरुपेत्य
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा
भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम्
विमुच्य वाहानवगाह्य सर्वे तत्रोपतस्थुर्भरतप्रधानाः
लतावितानावनतस्स पाण्डवैर्महाद्रुमः पञ्चभिरुग्रधन्विभिः
बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव