श्रीभगवान्
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः
अप्रैषं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः
ततो नादृश्यत रणे सौभः कुरुकुलोद्वह
अन्तर्हितो माययाऽभूत्ततोऽहं विस्मितोऽभवम्
अथ दानवसङ्घास्ते विकृताननमूर्धजाः
उदक्रोशन्महाराज धिष्ठिते मयि भारत
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे
अयोजयं तद्वधाय ततश्शब्द उपारमत्
हतास्ते दानवास्सर्वे यैस्स शब्द उदीरितः
शरैरादित्यसङ्काशैर्ज्वलितैश्शब्दसाधनैः
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्
शब्दो यतो महाराज तत्रापि प्राहरं शरान्
एवं नादैर्दिशस्सर्वास्तिर्यगूर्ध्वं च भारत
नादयामासुरसुरास्ते चापि निहता मया
ततः प्राग्ज्योतिषं गत्वा पुनरेवाप्यदृश्यत
सौभं कामगमं वीर मोहयन्मम चक्षुषी
ततो लोकान्तकरणो दानवोऽथ नराकृतिः
शिलावर्षेण महता सहसा मां समावृणोत्
सोऽहं पर्वतवर्षेण वध्यमानस्समन्ततः
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्
ततोऽहं पर्वतचितस्सहयः सहसारथिः
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः
ततो वृष्णिप्रवीरा ये ममाऽऽसन्सैनिकास्तदा
ते भयार्ता दिशस्सर्वे सहसा विप्रदुद्रुवुः
ततो हाहाकृतं सर्वमभूत् किल विशाम्पते
द्यौरन्तरिक्षं भूश्चैवादृश्यमाने तदा मयि
ततो विषण्णमनसो मम राजन्सुहृज्जनाः
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः
द्विषतां सम्प्रहर्षोऽभूदार्तिश्च सुहृदामपि
एवमज्ञातवान्वीर पश्चादश्रौषमच्युत
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः
हया मे सहसा राजन् वेपमाना इवाभवन्
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्
दृष्ट्वा मां बान्धवास्सर्वे हर्षमाहारयन्पुनः
ततो मामब्रवीत् सूतः प्राञ्जलिः प्रणतो नृप
सूतः
साधु सम्पश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्
अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव साल्वादद्य व्यपाहर
जहि साल्वं महाबाहो मैनं जीवय केशव
सर्वैः पराक्रमैर्वीर वध्यश्शत्रुरमित्रहन्
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा
योऽपि स्यात् पीठकः कश्चित्किं पुनस्समरे स्थितः
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून्
स एष नान्यैर्वध्यो हि त्वदृते नैव कश्चन
नैष मार्दवसाध्यो वै मतो नैष सखा तव
येन त्वं योधितो वीर द्वारका चावमर्दिता
श्रीभगवान्
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
वधाय साल्वराजस्य सौभस्य च निपातने
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्
यक्षाणां राक्षसानां च दानवानां च संयुगे
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्
अभिमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा
रूपं सुदर्शनस्याऽऽसीदाकाशे पततस्तदा
द्वितीयस्येव सूर्यस्य युगान्ते परिवेष्ट्यतः
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्
मध्येन दारयामास महामेरुमिवोच्छ्रितम्
द्विधा कृतं ततस्सौभं सुदर्शनबलाहृतम्
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा
तस्मिन्निपतिते सौभे चक्रमागात्करं मम
पुनश्चाद्धूय वेगेन साल्वायेत्यहमब्रुवम्
ततस्साल्वं गदां गुर्वीमाविध्यन्तं महाहवे
द्विधा चकार सहसा प्रजज्वाल च तेजसा
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः
हाहाकृता दिशो जग्मुरर्दिता मम सायकैः
ततोऽहं समवस्थाप्य रथं सौभसमीपतः
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्
दह्यमानमभिप्रेक्ष्य स्त्रियस्तास्सम्प्रदुद्रुवुः
एवं निहत्य समरे साल्वं सौभं निपात्य च
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम्
एतस्मात्कारणाद् राजन्नागमं गजसाह्वयम्
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः
वैशम्पायनः
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः
सैन्यसुग्रीवयुक्तेन रथेनाऽऽदित्यवर्चसा
द्वारकां प्रययौ कृष्णस्समाश्वास्य युधिष्ठिरम्
ततः प्रयते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा
धृष्टकेतुस्स्वसारं च समादायाथ चेदिराट्
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसः
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत
ब्राह्मणाश्च महाभागास्तथा विषयवासिनः
विसृज्यमानास्सुभृशं न त्यजन्ति स्म पाण्डवान्
समवायस्स राजेन्द्र सुमहाद्भुतदर्शनः
आसीन्महात्मनां तेषां काम्यके भरतर्षभ
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः
शशास पुरुषान्काले रथान्योजयतेति सः