श्रीभगवान्
एवं स पुरुषव्याघ्रस्साल्वो राज्ञां महारिपुः
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः
ततश्शतघ्नीश्च महागदाश्च दीप्ताश्च शूलानसिसायकांश्च
चिक्षेप रोषान्मयि मन्दबुद्धिस्साल्वो महाराज जयाभिकाङ्क्षी
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव
द्विधा त्रिधा वाऽच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव
ततश्शतसहस्रेण शराणां नतपर्वणाम्
दारुकं वाजिनश्चैव रथं च समवाकिरत्
ततो मामब्रवीद्वीरो दारुको विह्वलन्निव
स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः
इति तस्य निशम्याहं सारथेः करुणं वचः
अवेक्षमाणो यन्तारमपश्यं शरपीडितम्
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये
अन्तरं पाण्डवश्रेष्ठ पश्यामि न हतं शरैः
स तु बाणमयोत्पीडो व्यसृजद्रुधिरं बहु
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान्
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे
संस्तम्भयं महाबाहो साल्वबाणप्रपीडितम्
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्
त्वरितो रथमारोप्य सौहृदादिव भारत
आहुकस्य वचो वीर तस्यैव परिचारकः
विषण्णस्साधुवचनस्तन्निबोध युधिष्ठिर
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः
आहुकः
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत्
उपयात्वाऽद्य साल्वेन द्वारकां वृष्णिनन्दन
विषक्ते त्वयि दुर्धर्ष हतश्शूरसुतो बलात्
तदलं साधुयुद्धेन निवर्तस्व जनार्दन
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव
श्रीभगवान्
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्
जगर्हे मनसा वीरांस्तच्छ्रुत्वा विप्रियं वचः
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन
तेषु रक्षां समाधाय प्रयातस्सौभपातने
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा
सात्यकिश्चारुदेष्णश्च रौक्मिणेयश्च वीर्यवान्
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन
शक्यश्शूरसुतो हन्तुमपि वज्रभृता स्वयम्
हतश्शूरसुतो व्यक्तं व्यक्तं ते च परासवः
बलदेवमुखास्सर्व इति मे निश्चिता मतिः
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः
अविह्वलो महाराज पुनस्साल्वमयोधयम्
ततोऽपश्यं महाराज प्रपतन्तमहं तदा
सौभाच्छूरसुतं वीर ततो मां मोह आविशत्
तस्य रूपं प्रपततः पितुर्मम नराधिप
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम्
विशीर्णगलितोष्णीषस्रस्तकुण्डलभूषणः
प्रपतन्दृश्यते पार्थ क्षीणपुण्य इव ग्रहः
ततश्शार्ङ्गं धनुश्श्रेष्ठं कराग्रात्प्रापतन्मम
मोहापन्नस्तु कौन्तेय रथोपस्थ उपाविशम्
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत
प्रसार्य बाहू पततः प्रसार्य चरणावपि
रूपं पितुरपश्यं तच्छकुनेः पततो यथा
तं पतन्तं महाबाहो शूलपट्टसपाणयः
अभिघ्नन्तो भृशं वीर मम चेतो व्यकम्पयन्
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञामहं तदा वीर महाविमर्दे
न तत्र सौभं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि
ततो ममाऽऽसीन्मनसि मायेयमिति निश्चितम्
प्रबुद्धोऽस्मि ततो भूयश्शतशोऽवाऽकिरं शरान्