श्रीभगवान्
आनर्तनगरं मुक्तं ततोऽहमगमं तदा
महाक्रतौ राजसूये निवृत्ते भरतर्षभ
अपश्यं द्वारकां चैव महाराज हतत्विषम्
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्
अनभिज्ञेयरूपाणि द्वारकोपवनानि च
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम्
किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम्
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत्
रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम
ततोऽहं कौरवश्रेष्ठ श्रुत्वाऽप्रियमनुत्तमम्
विनाशे साल्वराजस्य तदैवाकरवं मतिम्
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्
राजानमाहुकं चैव तथैवाऽऽनकदुन्दुभिम्
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा
अप्रमादस्सदा कार्यो नगरे यादवर्षभाः
साल्वराजविनाशाय प्रयातं मां निबोधत
नाहत्वा विनिवर्तिष्ये पुरीं द्वारवतीं प्रति
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः
त्रिःसामा हन्यतामेषा दुन्दुभिश्शत्रुभीषणी
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान्
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम्
शैब्यसुग्रीवयुक्तेन रथेनाच्छादयन्दिशः
प्रध्माय शङ्खप्रवरं पाञ्चजन्यं भयावहम्
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः
क्लृप्तेन चतुरङ्गेण बलेन जितकाशिना
समतीत्य बहून्देशान् गिरींश्च बहुपादपान्
सरांसि सरितश्चैव मार्तिकावतमासदम्
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात्
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम्
दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके
ततस्सागरमासाद्य कुक्षौ तस्य चलोर्मिणः
समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन्
स समालोक्य सहसा सेनां स्वां प्राहिणोद्युधि
मद्बाहुना च सेनायां शिष्टायां किञ्चिदेव च
स समालोक्य सहसा स्मयन्निव युधिष्ठिर
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः
पुरं नासाद्यत शरैस्ततो मां रोष आविशत्
स चापि पापप्रकृतिर्दैतेयापशदो नृप
मय्यवर्षत दुर्धर्षश्शरधारास्सहस्रशः
सैनिकान्मम सूतं च हयांश्च समवाकिरत्
अचिन्तयन्तस्तु शरान् वयं युध्याम भारत
ततश्शतसहस्राणि शराणां नतपर्वणाम्
चिक्षिपुस्समरे वीरा मयि साल्वपदानुगाः
ते हयान् मे रथं चैव ध्वजं दारुकमेव च
छादयामासुरसुरास्साल्वराजेन चोदिताः
न हया न रथो वीर न ध्वजो न च दारुकः
अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे
ततोऽहमपि कौन्तेय शराणामयुतान्बहून्
आमन्त्रितां च धनुषि दिव्येन विधिनाऽक्षिपम्
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत
खे विषक्तं हि तत्सैन्यं क्रोशमात्र इवाभवत्
ततस्ते प्रेक्षकास्सर्वे देवा वै दिवमास्थिताः
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे
अङ्गेषु रुधिराक्तास्ते विविशुश्शलभा इव
ततो हलहलाशब्दस्सौभमध्ये व्यवर्धत
वध्यतां विशिखैस्तीक्ष्णैः पतताञ्च महार्णवे
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः
नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्
तान्दृष्ट्वा पतितांस्तत्र साल्वस्सौभपतिस्तदा
मायायुद्धेन महता योधयामास मां युधि
ततो हिन्दुहलाः प्रासाश्शूलशक्तिपरश्वथाः
पट्टसाश्च मुसुण्ड्यश्च प्रपतन्त्यनिशं मयि
तामहं माययैवाऽऽशु प्रतिगृह्य व्यनाशयम्
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत्
ततोऽभवत्तम इव प्रकाश इव चाभवत्
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः
विज्ञाय तदहं सर्वं माययैव व्यनाशयम्
यथाकालं तु युद्धेन व्यधमं सर्वतश्शरैः
ततो व्योम महाराज शतसूर्यमिवाभवत्
शतचन्द्रं च कौन्तेय सहस्रायुततारकम्
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम्
ततस्तदस्त्रं मन्त्रेण विधूतं शरतूलवत्
तथा समभवद्युद्धं तुमुलं रोमहर्षणम्
लब्ध्वा लोकं च राजेन्द्र पुनश्शत्रुमयोधयम्