श्रीभगवान्
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने रणवल्लभ
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनामुखे
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं तदा
प्रद्युम्ने पतिते राजन्साल्वः प्रमुदितोऽभवत्
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा
नातिदूरापयाते तु रथे रथवरप्रणुत्
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम्
प्रद्युम्नः
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते
कच्चित्सौते न ते मोहस्साल्वं दृष्ट्वा महाहवे
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्
सूतः
जानार्दने न मे मोहो नापि मां भयमाविशत्
अतिभारं तु ते मन्ये साल्वं केशवनन्दन
सोपयामि शनैर्वीर बलवानेष पापकृत्
मोहितश्च रणे शूरो रक्ष्यस्सारथिना रथी
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम्
रक्षितव्यो रणे नित्यमिति मत्वाऽपयाम्यहम्
एकश्चासि महाबाहो बहवश्चापि दानवाः
न समं रौक्मिणेयाहमिति मत्वाऽपयामि वा
श्रीभगवान्
एवं ब्रुवति सूते तु तदा मकरकेतुमान्
उवाच सूतं कौरव्य सन्निवर्त्य रथं पुनः
प्रद्युम्नः
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन
व्यपयानं रणात्सौते जीवतो मम कर्हिचित्
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम्
यश्चापि पतितं हन्ति तवास्मीति च वादिनम्
तथा स्त्रियं वै यो हन्ति वृद्धान् बालांस्तथैव च
विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा
त्वं च सूतकुले जातो विदितस्सूतकर्मणि
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके
वर्णनं चरितं कृत्स्नं वृष्णीनां पृतनामुखे
अपयानं पुनस्सौते मैवं कार्षीः कथञ्चन
अपयातं हतं पृष्ठे भीरुं रणपलायिनम्
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः
किं वक्ष्यति महाबाहुर्बलदेवस्समागतः
किं वक्ष्यति शिनेर्नप्ता रणसिंहो महारथः
अपयातं रणात्सौते साम्बश्च समितिञ्जयः
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम्
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति सङ्गताः
प्रद्युम्नोऽयमपायाति भीतस्त्यक्त्वा रणाजिरम्
धिगेनमिति वक्ष्यन्ति साधु साध्विति मां प्रति
धिग्वचः परिहासो वा मम वा मद्विधस्य वा
मृत्युतोऽभ्यधिकस्सौते तस्मान्मा व्यपयाः पुनः
भारं हि मयि सन्न्यस्य यातो मधुनिहा हरिः
यज्ञं भारतसिंहस्य पार्थस्यामिततेजसः
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः
साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम्
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम्
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्
सात्यकिं बलदेवं च ये चान्ये तत्र वृष्णयः
मया स्पर्धन्ति सततं किं वक्ष्यामि महारथम्
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतश्शरैः
त्वयाऽपनीतो विवशो न जीवेयं कथञ्चन
सन्निवर्त रथेनाऽऽशु पुनर्दारुकनन्दन
न चैतदेवं कर्तव्यमापत्सु च कथञ्चन
न जीवितमहं सौते बहुमन्ये कथञ्चन
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतश्शरैः
कदा मां सूतपुत्र त्वं जानीषे वा भयार्दितम्
अपयातं रणं हित्वा यथा कापुरुषं तथा
मयि युद्धार्थिनि भृशं स त्वं याहि रणाजिरम्
अयुक्तं तु मया त्यक्तुं सङ्ग्रामं दारुकात्मज
श्रीभगवान्
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा
सौतिः
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान्
युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः
त्वं हि साल्वप्रयुक्तेन पत्रिणाभिहतो भृशम्
कश्मलाभिहतो वीर ततोऽहमपयातवान्
स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया
पश्य मे हयसंयाने शिक्षां केशवनन्दन
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः
वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम्
श्रीभगवान्
एवमुक्त्वा ततो वीरो हयान्संयोज्य सङ्गरे
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा
मण्डलानि विचित्राणि यमकानीतराणि च
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः
प्रतोदेनाहता राजन् रश्मिभिश्च समुद्यताः
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम्
सोऽपसव्यां चमूं तस्य साल्वस्य भरतर्षभ
चकार नातियत्नेन तदद्भुतमिवाभवत्
अमृष्यमाणोऽपसव्यं साल्वस्समितिदारुणः
यन्तारमस्य सहसा त्रिभिर्बाणैस्समर्पयत्
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन्
भूय एव महाबाहो प्रययौ हितसम्मतः
ततो बाणान्बहुतरान्पुनरेव स सौभराट्
मुमोच तनये वीर मम रुक्मिणिनन्दने
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा
रौक्मिणेयस्स्मितं कृत्वा दर्शयन्पाणिलाघवम्
भग्नान्दृष्ट्वा तु तान्बाणान् प्रद्युम्नेन स सौभराट्
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान्
तां प्रयुक्तां समाज्ञाय दैतेयास्त्रं महाबलम्
ब्रह्मास्त्रेणान्तरा च्छित्त्वा मुमोचान्यान्पतत्रिणः
तस्य चास्त्रं विधूयाथ विव्याध रुधिराशनान्
शिरस्युरसि वक्त्रे च स मुमोह पपात च
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते
रौक्मिणेयोऽपरं बाणं सन्दधे शत्रुतापनः
तमर्चितं सर्वदाशार्हपूगैराशीर्भिरग्निज्वलनप्रकाशम्
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम्
ततो देवगणास्सर्वे सेन्द्रास्सहधनेश्वराः
नारदं प्रेषयामासुश्श्वसनं च महाबलम्
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्
नारदश्वसनौ
नैव वध्यस्त्वया वीर साल्वराजः कथञ्चन
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे
एतस्य च शरस्याजौ नावध्योऽस्ति पुमान्क्वचित्
मृत्युरस्य महाबाहो रणे देवकिनन्दनः
कृष्णस्सङ्कल्पितो धात्रा तन्मिथ्या न भवेदिति
श्रीभगवान्
ततः परमसंहृष्टः प्रद्युम्नश्शरमुत्तमम्
सञ्जहार धनुश्श्रेष्ठात्तूणौ चैव न्यवेशयत्
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः
स द्वारकां परित्यज्य साल्वो वृष्णिभिरर्दितः
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा